SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ (११८) तत्त्वन्यायविभाकरे द्विविधोऽपि सः पञ्चविधः । ज्ञानदर्शनचरणतपो यथासूक्ष्मभेदात् ॥ ज्ञानदर्शनचरणतपसां वैपरीत्येनाऽऽसेवकाश्चत्वारः प्रतिसेवनाकुशीलाः । शोभनतपस्वित्वप्रशंसाजन्यसन्तोषवान् यथासूक्ष्मप्रतिसेवनाकुशीलः ॥ संज्वलनक्रोधादिभिः ज्ञानदर्शनतपसां स्वाभिप्रेतविषये व्यापारयिता ज्ञानादित्रिविधकषायकु. शीलः । कषायाक्रान्तः शापप्रदः कुशीलश्चारित्रकषायकुशीलः। मनसा क्रोधादिकर्ता कुशीलो यथा सूक्ष्मकषायकुशीलः ॥ निर्गतमोहनीयमात्रकर्मा चारित्री निर्ग्रन्थः । स चोपशान्तमोहो क्षीणमोहश्चेति द्विविधः ॥ ___ संक्रमणोद्वर्तनादिकरणायोग्यतया व्यवस्थापि. तमोहनीयकर्मोपशान्तमोहः । क्षपितसर्वमोहनीयप्रकृतिको निर्ग्रन्थः क्षपितमोहः ॥ द्विविधोऽपि सः प्रथमाप्रथमचरमाचरमसमय यथासूक्ष्मभेदात् पञ्चविधः ।। ___ अन्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमय एव निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमय
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy