SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ लोकनिरूपणम् ___ (१११) - ततश्चोर्ध्व किञ्चिदूनसप्तरज्जुपरिमाण ऊर्वीकृतमृदङ्गाकृतिरालोकान्तमूर्ध्वलोकः क्षेत्रत उत्कृष्टशुभपरिणामोपेतः ॥ तत्र च कल्पोपपन्नाः कल्पातीताश्च वैमानिका देवा वसन्ति ॥ सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारानतप्राणतारणाच्युतभेदेन द्वादशविधानि कल्पोपपन्नदेवानां स्थानानि उपर्युपरि भवन्ति । तत्र सौधर्मदेवस्योत्कृष्टतो द्विसागरोपममायुः । ईशानस्य किश्चिदधिकं द्विसागरोपमं सनस्कुमारस्य सप्तसागरोपमं माहेन्द्रस्य किश्चिदधिकं तत्, अग्रिमाणाञ्च दशचतुर्दशसप्तदशाष्टादशैकोनविंशतिविंशत्येकविंशतिद्वाविंशतिसागरोपमाणि । जघन्यतस्सौधर्मस्य पल्योपमं, ईशानस्य किञ्चिदधिकपल्योपमं, अग्रे तु यदधोऽधो देवानामुत्कृष्टायुरुपरितनदेवानां तजघन्यम् ॥ ___ ततश्वोपर्युपरि त्रयोविंशतिसागरोपमात् एकैकाधिकसागरोपमाधिकोत्कृष्टायुष्काणां तदधो देवोत्कृष्टजघन्यायुष्काणां देवानां सुदर्शनसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमनसप्रीतिकरादित्य भेदतो लोकपुरुषस्य ग्रीवाप्रदेशस्थाः कण्ठाभरणभूता नवग्रैवेयकाभिख्या स्थानविशेषास्सन्ति ।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy