SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( ११० ) तत्त्वन्यायविभाकरे नीलपर्वताद्दक्षिणेन तदुत्तरेणोत्तराः कुरवः । देवकुरूत्तरकुरुभ्योऽन्यत्र भरतैरावतविदेहाः कर्मभूमयः ।। एवं लवणोदकालोदपुष्करोदवरुणोदक्षीरोदघृतोदेक्षुवरोद नन्दीश्वरोदारुणवरोदादिभिस्समुद्रैः क्रमेणान्तरिता जम्बूधातकी खण्ड पुष्करवरवरुणवरक्षीरवरघृतवरेक्षुवरनन्दीश्वरारुणवरादयोऽसंख्याताः स्वयम्भूरमणपर्यन्ता द्वीपसमुद्राः परित एकरज्जुविकम्भे वर्तन्ते || तत्र पुष्करवरद्वीपा यावन्मानुषं क्षेत्रम् । ततः परं मनुष्यलोक परिच्छेदकः प्राकाराकारो मानुषोत्तरो नाम भूधरो वर्तते । नास्मात्परतो जन्ममरणे मनुव्याणां जायेते ॥ रुचकाभिधानसमतलादूर्ध्वं नवत्युत्तरसप्तशतयोजनान्तेऽनुक्रमेण जघन्योत्कृष्टतः पल्योपमाष्टमचतुर्थभागायुष्काणां तारकाणां विमानानि । तत ऊर्ध्व दशयोजनेषु सहस्राधिकपल्योपमायुष्कसूर्यविमानं । तदुपर्यशीतियोजनेषु लक्षाधिकपल्योपमायुष्कचन्द्रविमानं । ततोऽप्यूर्ध्वं विंशतियोजनेषु अर्धपत्यैकपल्योपमायुष्काणां नक्षत्रग्रहाणां विमानानि ॥ एवममी ज्योतिर्गणा एकविंशत्युत्तरैकादशशतयोजनदूरतो मेरुं परिभ्रमन्ति ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy