SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाऽप्युपायेन म्रियेत तदास्माकमेतस्य देहेन प्रभृतं भोजनं भवेत् । तत्र शृगालेन कथितम् - 'मया मतेः प्रभावादस्य मरणं साधयितव्यम्' । अनन्तरं स वञ्चकः कर्पूरतिलकस्य निकषा गत्वा प्रणम्यावदद् ‘भगवन् ! कृपया मां पश्यतु ।' कर्पूरतिलकोऽवदत् ‘कस्त्वं ? कुतः आगत: ?” सोऽप्यवदत् 'शृगालोऽहम् । सर्वैः पशुभिर्मिलित्वा भवतो निकषा भवन्तमाह्वातुं प्रेषितोऽहम् । यतः राज्ञा विना न स्थीयते वने, ततश्व वनस्य राज्ये गुणैर्युक्तं भवन्तमभिषेक्तुं त इच्छन्ति । अञ्जसाऽऽगच्छतु भवान्' - इत्युक्त्वा स शृगाल उत्थाय चलितः । 8. तत: राज्यस्य लोभेनाकृष्टो हस्ती शृगालस्य पश्चात् [पाछ्ण-पाछ्ज्] धावन् पङ्के पतितः । ततस्तेन हस्तिनोदितम् 'मित्र ! शृगाल ! किमधुना कर्तव्यम् ? पङ्के पतितोऽहं म्रियेय ?” शृगालेन हसित्वादितम् 'मम वचसि कृतस्य विश्वासस्य फलमनुभूयतां, किङ्कुर्वेऽहम् ?” इति । * प्रश्नो: 1. वनस्य नाम किमासीत् ? 2. 'वृक्ष - पत्र - पुष्प - फल - पक्षिभिः' इत्यस्य विग्रहः कस्स्यात् ? हस्तिनो नाम किमासीत् ? 3. 4. शृगाला: किं चिन्तयन्त आसन् ? 5. शृगालेन केनोपायेन हस्तिनो मरणं साधितम् ? हस्तिनो निकषा गतेन शृगालेन किमुदितम् ? 7. प्रणम्येति रूपं कस्य कृदन्तस्याऽस्ति ? 6. संबोधनविभक्तिरत्र किमस्ति ? कियत्य: (32सी) ? अनया वार्तया का उपदेशौ लब्धव्यौ ? 9. ★ प्रेषितः = भोलायेलो. है है सरत संस्कृतम्-१ है है है २२१.४.४.४.४.४.४.है 415-२७.है.है
SR No.007260
Book TitleSaral Sanskritam Prathama
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy