________________
कल्प
सूत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
........ व्याख्यान [२] ........... मूलं [१५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ॥
सूत्रांक
[१५] गाथा
(धम्मवरचाउरंतचकवट्टीणं) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोऽन्तास्तेषु प्रभुतया भवाश्चातुरन्ताःशचतुरन्तस्वामिनः एवंविधा ये चक्रवर्तिनस्ते चातुरन्तचक्रवर्तिनः धर्मस्य वरा:-श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मज्जतां द्वीप इव संसारसमुद्रे आधारः,
(ताणं) त्राणं-अमर्थप्रतिघातहेतुः, अत एव (सरणं) कर्मोपद्रवेभ्यो भीतानां शरणं (गई) गम्यते सौIS|स्थ्याय दुस्थैराश्रीयते गतिः (पइद्वा) भवकूपपतत्प्राणिना अवलम्बन, वीवो ताणं इत्यादीनि पदानि प्रथमा
न्तान्यपि चतुर्थ्यर्थषष्ठवन्ततया व्याख्येयानि (अप्पडिहयवरनाणदसणधराणं) अप्रतिहते-कटकुट्यादिभिरस्खलिते बरे-प्रधाने ज्ञानदर्शने केवल ज्ञानदर्शने धरन्ति येते तथा तेभ्यः (विअछउमाण) व्यावृत्तंगतं छम-घातिकर्माणि येभ्यस्ते व्यावृत्तच्छमानस्तेभ्यः (जिणाणं) रागद्वेषजेतृभ्यः (जावयाण) उपदेशदानादिना भव्यसत्त्वै रागादिजापकास्तेभ्यः (तिनाणं) भवसमुद्रं तीर्णेभ्यः (तारयाणं) सेवकानां तारकेभ्यः (बुद्धाणं) सर्वतत्वबुद्धेभ्यः (बोहयाणं) अन्येषां बोधकेभ्यः (मुत्ताणं) मुक्तेभ्यः कर्मपञ्जरात् (मोअगाणं) सेवकानां मोचकेभ्यः (सवणं) सर्वज्ञेभ्यः (सबदरिसीणं) सर्वदर्शिभ्यः (सिव) निरुपद्रवं (अयलं)
दीप अनुक्रम
द्वितियम् व्याख्यानं आरभ्यते
... अत्र शक्रस्तव-स्तोत्रस्य शेष-वर्णनं वर्तते
~61~