________________
कल्प
सूत्र
प्रत
सूत्रांक
[२१२]
गाथा
||R..||
दीप
अनुक्रम
[२०७]
Jan Education
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्ति:)
........... व्याख्यान [७] मूलं [२१२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुः यत् वयमपि आहारविधिं न जानीमः, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतल ज्जया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं एवं ध्यायन्तो गङ्गातटे परिशटितपत्राद्युप भोगिनोऽसंस्कृतकेश कूर्चा जटिलास्तापसा जज्ञिरे ॥
इतश्च कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविन मिनामानी देशान्तरादागती, भरतेन दीयमानं राज्यभागं अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो भूमिसिञ्चनं जानुप्रमाणं कुसुमोचयं च कृत्वा पञ्चाङ्गप्रणामपूर्वकं राज्यभागप्रदो भवेति प्रत्यहं विज्ञपयन्ती जिनं सिषेवतुः, तौ चान्यदा तथा वीक्ष्य वन्दनार्थमागतो घरणेन्द्रो भगवद्भत्त्या सन्तुष्टोऽवादीत्-भो ! भगवान् निःसङ्गो मा भगवन्तं याचेथां, भगवद्भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्ख्याका (४८०००) विद्याः तत्र गौरी - गान्धारी-रोहिणी- प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान्, यञ्चोक्तं किरणावलीकारेण 'अष्टचत्वारिंशत्सङ्ख्याका (४८) इति' तद्युक्तं, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां (४८००० ) उक्तत्वात्, अथ विद्या दवा उक्तवांश्च 'इमाभिर्विद्याधरर्द्धिप्राप्तौ सन्तौ खजनं जनपदं च गृहीत्वा यातं युवां वैताये | नगे दक्षिणविद्याधरश्रेण्यां गौरेयगान्धारप्रमुखानंष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि पञ्चाशन्नगराणि, उत्त रश्रेण्यां च पण्डकवंशालयप्रमुखांनष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्टिनगराणि निवास्य विहरतमिति,
For Private & Personal Use Only
~321~
नमिविनम्योर्वियाधरत्वम्
५
१०
१४
(jatiary.org)