________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
गणधरौ
[१२१] गाथा ||२..||
कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म वध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि न तु मनुष्यो पष्ठसप्तमी मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति, न हि शालीबीजागोधूमाकुरः सम्भ-18 वतीति या तव चित्ते युक्तिः प्रतिभाति साऽपि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात कार्यवैसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधर:५॥ | अथ बन्धमोक्षविषये,सन्दिग्धं मण्डिताभिधं विबुधम् । ऊचे विभुर्यधास्थं, वेदार्थ किं न भावयसि ॥१॥ यतःस एष विगुणो विभुने बद्धधते संसरति वा मुच्यते मोचयति वा त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो?-विगुणः-सत्त्वादिगुणरहितो, विभुः-सर्वव्यापको न बयते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा वन्धाभावात् , नापन्यं मोचयति अकर्तृकत्वात् , परं नायं अर्थः समर्थः, किन्तु स एप आत्मा, किंविशिष्टो?-181 विगुणो-विगतच्छानस्थिकगुणः, पुनः कीदृशो?-विभु:-केवलज्ञानवान् केवलज्ञानखरूपेण विश्वव्यापकत्वात्, एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधर:६॥
अथ देवविषयसन्देहसंयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं , वेदार्थ किं न भावयसि ?॥१॥ यतः1' को जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, 'स एष यज्ञायुधी यजमानोऽञ्जसा वर्लोकं गच्छति' इति पदैस्तु देवसत्ता प्रतीयते इति तव सन्देहः, परं अविचारितं एतत् ,
दीप अनुक्रम [१२६]
१४
~251~