________________
कल्प
सूत्र
प्रत
सूत्रांक
[११८]
गाथा
॥१,२॥
दीप
अनुक्रम
[१२०
१२२]
Jan Education le
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] मूलं [ ११८] / गाथा [१, २] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
ददाति सा च यथोचितं मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तथा आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः यदुत भो ! आवाय आगन्तुं न शक्यते परं यद् भवतां विवाहे युज्यते तदस्मद्देहाद् ग्राह्यं ततो व्यवहारिदत्तैश्चन्द्रोदयाप करणैर्वखाभरणधूपादिभिश्च स आभीरविवाहोऽत्यन्तं उत्कृष्टो जातः, तेन प्रमुदिताभ्यां आभीराभीरीभ्यां अतिमनोहरौ समानवयसौ बालवृषभौ आनीय तयोदेतो, तो नेच्छतः, बलाद् गृहे बध्ध्वा तौ स्वगृहं गतौ, व्यवहारिणा चिन्तितं यदि इमौ पश्चात् प्रेषयिष्येते तदा | षण्ढीकरण भारोद्वहनादिभिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्ती पोष्यमाणी वाहनादिश्रमविवर्जितौ सुखं तिष्ठतः, अन्यदा च अष्टम्यादिषु कृतपौषधेन तेन श्रवण पुस्तकादि वाच्यमानं निशम्य तौ भद्रकौ जातौ, यस्मिन् दिने स श्रावक उपवास करोति तस्मिन् दिने तो अपि तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि साधर्मिकत्वेन अत्यन्तं प्रियौ जातौ, एकदा तस्य जिनदासस्य मित्रेण तौ अतिबलिष्ठौ सुन्दरौ वृषौ विज्ञाय श्रेष्ठिनं अनापृच्छचैव भण्डीरवनयक्षयात्रायें अदृष्टधुरौ अपि तथा वाहितौ यथा त्रुटितो, आनीय तस्य गृहे बद्धौ श्रेष्ठी च तौ तदवस्थौ विज्ञाय साश्रुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्नियमितवान्, ततस्ती मृत्वा नागकुमारौ देवी जातो, तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरेकतरेण नौ रक्षिता अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ च समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तौ स्वस्थानं गतौ । भगवानपि राजगृहे नालन्दायां तन्तु
For Five & Fersonal Use Only
~ 221 ~
कम्बलश म्वलो
त्पत्ति
५
१०
१४