________________
कल्प
सूत्र
प्रत
सूत्रांक
[8]
गाथा
II-II
दीप
अनुक्रम [0]
Jan Education le
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
.......... व्याख्यान [१]
मूलं [१] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
टवइ सम्वजिणखंघे । वीरस्स वरिसमहिअं. सयावि सेसाण तस्स ठिई' ॥ १ ॥ इति सप्ततिशतस्थानकवचनाचेति ज्ञेयं । साधून आश्रित्य च अजितादिद्वाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्र परिभो गांनुज्ञासद्भावेन सचेलकत्वमेव केषाञ्चिच श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इत्यनियतस्तेषामयं कल्पः, श्रीऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेत जीर्णप्राय वस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्रपरिभोगे सत्यपि कथं अचेलकत्वं इति चेद्, उच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि-कृतपोतिका नदीमुत्तरन्तो वदन्ति अस्माभिर्ननीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादश्व वदन्ति शीघ्रं अस्माकं वस्त्रं देहि वयं नग्नाः स्म इति, एवं साधूनां वस्त्रसङ्गावेऽपि अचेलकत्वं इति प्रथमः १ ॥ तथा 'उद्देसिभ'न्ति औदेशिक आधाकर्मिकं इत्यर्थः साधुनिमित्तं कृतं अशनपानखादिमखादिमवस्त्रपात्रवसतिप्रमुखं तच प्रथमचरमजिनतीर्थे एक साधुं एक साधुसमुदायं एकं उपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां साध्वादीनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्प्यं, अन्येषां तु कल्पते इति द्वितीयः २ ॥
तथा 'सिजायर'ति शय्यातरो वसतिस्वामी तस्य पिण्डः - अशन १ पान २ खादिम ३ खादिम ४ वस्त्र ५पात्र ६ कम्बल ७ रजोहरण ८ सूची ९ पिपलक १० नखरदन ११ कर्णशोधनक १२ लक्षणो द्वादशप्रकार: १ पात्रलेपवत् संयमशुद्ध वर्णपरावन्तोंऽधुना ।
For Pide & Personal Use On
~21~
janelbrary.org