________________
कल्प
सूत्र
प्रत
सूत्रांक
[१०८]
गाथा
||..||
दीप
अनुक्रम [११२]
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः)
........... व्याख्यान [५] मूलं [१०८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
उपसर्गाश्च दिव्यादयश्चत्वारः समभेदास्तु षोडश १६ तेषां ( खंतीखमे ) क्षान्त्या - क्षमया क्षमते न त्वसमर्थतया यः स क्षान्तिक्षमः (पडिमाणं पालए) प्रतिमानां भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशेपाणां पालकः (धीमं) घीमान् ज्ञानत्रयाभिरामत्वात् ( अरहरइसहे) अरतिरती सहते, न तु तत्र हर्षविपादौ कुरुते इति भावः ( दविए) द्रव्यं तत्तगुणानां भाजनं रागद्वेषरहित इति वृद्धाः ( वीरिअसंपन्ने ) वीर्य - पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो ( देवेहिं से णामं कयं समणे भगवं महावीरे ) देवैः से इति तस्य भगवतो नाम कृतं श्रमणो भगवान् महावीर इति तृतीयम् ॥ ( १०८ ) ॥
तदिदं नाम देवैः कृतं कथं कृतं ? इत्यत्र वृद्धसंप्रदाय :- अथैवं पूर्वोक्तयुक्तया सुरासुरनरेश्वरैः कृतजन्मोत्सवो भगवान् द्वितीयाशशीव मन्दाराङ्कुर इव वृद्धिं प्राप्नुवन् क्रमेण एवंविधो जातः-द्विजराजमुखो गजराजगतिः, अरुणोष्ठपुटः सितद्न्तततिः । शितिकेश भरोऽम्बुजमञ्जुकर, सुरभिश्वसितः प्रभयोल्लसितः ॥ १ ॥ मतिमान् श्रुतवान् प्रथितविधियुक, पृथुपूर्व भवस्मरणो गतरुक । मतिकान्तिधृतिप्रभृति स्वगुणैर्जगतोऽप्यधिको जगतीतिलकः ॥ २ ॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीक्रीडानिमित्तं पुराद् बहिर्जगाम, तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म, अत्रान्तरे सौधर्मेन्द्रः सभायां श्रीवीरस्य धैर्यगुणं वर्णपत्रास्ते, बहुत पश्यत भो देवाः! साम्प्रतं मनुष्यलोके श्रीवर्द्धमानकु| मारो बालोऽप्यंबालपराक्रमः शक्रादिभिर्देवैरपि भापयितुं अशक्यः कटरे वालस्यापि धैर्यं तदाकर्ण्य च कश्चित्
For Filde&Fron
~ 191 ~
आमलकीक्रीडा
५
१४
www.janbary.org