________________
कल्प
सूत्र
प्रत
सूत्रांक
[७२]
गाथा
||..||
दीप
अनुक्रम [७२]
कल्प. सुबो
व्या० ४ शस्त्र
॥ ६५ ॥
Jan Education le
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
........... व्याख्यान [४] .......... मूलं [७२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्ति: :
अपहारो हयवारणयानासनसदननिवसनादीनाम् । नृपशङ्काशोककरो, बन्धुविरोधार्थहानिकरः ॥ १३॥ यः सूर्याचन्द्रमसोर्विभ्वं प्रसते समग्रमपि पुरुषः । कलयति दीनोऽपि महीं ससुवर्णा सार्णवां नियतम् ॥ १४ ॥ हरणं प्रहरणभूषणमणिमौक्तिक कनकरूप्यकुप्यानाम् । धनमानम्लानिकरं दारुणमरणावहं बहुशः ॥ १५ ॥ आरूढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । भुङ्क्ते भूमीमखिलां स जातिहीनोऽपि धर्मधनः ॥ १६ ॥ निजभार्याया हरणे, वसुनाशः परिभवे च संक्लेशः । गोत्रस्त्रीणां तु नृणां जायेते बन्धुवधवन्धौ ॥ १७ ॥ शुभ्रेण दक्षिणस्यां यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्रं कनकस्य स पश्चरात्रेण ॥ १८ ॥ जायेत यस्य हरणं, निजशयनोपानहां पुनः स्वमे । तस्य म्रियते दयिता, निविडा स्वशरीरपीडा च ॥ १९ ॥ यो मानुषस्य मस्तकचरणभुजानां च भक्षणं कुरुते । राज्यं कनकसहस्रं तदर्धमाप्नोत्यसौ क्रमशः ॥ २० ॥ द्वारपरिघस्य शयनप्रेङ्खो|लनपादुका निकेतानाम्। भञ्जनमपि यः पश्यति तस्यापि कलन्ननाशः स्यात् ॥ २१ ॥ कमलाकररत्नाकरजलसपूर्णापगाः सुहृन्मरणम् । यः पश्यति लभते सार्वनिमित्तं वित्तमतिविपुलम् ॥ २२ ॥ अतितरां पानीयं, सगोमयं गड्डुलमौषधेन युतम् । यः पिवति सोऽपि नियतं त्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमाया यात्रा: २५ स्वपनोपहारपूजादीन् । यो विदधाति स्वप्रे तस्य भवेत् सर्वतो वृद्धिः ॥ २४ ॥ स्वप्ने हृदयसरस्य यस्य प्रादुर्भ विन्ति पद्मानि । कुष्टविनष्टशरीरो, यमवसतिं याति स त्वरितम् ॥ २५ ॥ आज्यं प्राज्यं स्वमे, यो विन्दति वीक्षते यशस्तस्य । तस्याभ्यवहरणं वा क्षीरान्नेनैव सह शस्तम् ॥ २६ ॥ हसने शोचनमचिरात् प्रवर्त्तने नर्त्तने च वध
।। ६५ ।।
For Private & Personal Use Only
~ 148~
स्वप्नवि
चारः १५
२०
२८
janelbrary.org