________________
आगम
(४४)
प्रत
सूत्रांक
[४०] गाथा
॥८९..।।
दीप
अनुक्रम
[१३३]
नन्दीहारिभद्रीय पूची
॥ ७९ ॥
“नन्दी”- चूलिकासूत्र-१ ( मूलं + वृत्तिः)
मूलं [४०] / गाथा ||८१..||
'से किं तमित्यादि, अथ कोऽयं हेतूपदेशेन, हेतुः कारणं स एव उपदेशः हेतोरुपदेशः हेतुपदेशस्तेन, कारणोपदेशेनेत्यर्थः, यस्य प्राणिनोऽस्ति विद्यतेऽभिसन्धारणम्--अव्यक्तेन विज्ञानेनालोचनं तत् पूर्विका तत्कारणिका करणशक्तिः क्रियाशक्तिः, करणं क्रिया शक्तिः सामर्थ्य, अव्यक्तविज्ञानालोचननिबन्धनचेष्टासामर्थ्यमिति भावना, स प्राणी णमिति वाक्यालंकारे संज्ञीति लभ्यते, अयं च द्वीन्द्रियादिः सम्मूर्च्छिमपंचेन्द्रियावसानो विज्ञेयः तथाहि क्रम्यादयो ऽपीष्टेष्वाहारादिषु प्रवर्त्तन्ते अनिष्टेभ्यश्च निवर्त्तन्ते स्वदेहपरिपालनार्थ, प्रायो वर्त्तमान एव न चासीचन्त्येष्टानिष्टविषयः प्रवृत्तिनिवृत्तिसम्भव इति संज्ञी, उत्तलक्षणविकलस्त्वसंज्ञी, तथा चाह- 'यस्येत्यादि यस्य नास्ति अभिसन्धारणपूर्विका करणशक्तिः सोऽसंङ्गीति लभ्यते, अयं चैकेन्द्रियपृथिव्यादिखसेयो, मनोलब्धिरहितत्वाद, आह-यदि स्वल्पसंज्ञायोगाद्विकलेन्द्रियादयः संशिन इष्यन्ते पृथिव्यादयः किं नेष्यन्ते । यतस्तेषामपि दशविधाः संज्ञा विद्यन्त एव तथा चोक्तं परमगुरुभिः- “कति णं मंत! एगिंदियाणं सभाओ पद्मत्ताओ, गोयमा दस, तंजहा आहारसंना भयसभा मेहुण० परिग्गहसन्ना कोह०माण • माया • लोभ० ओहसचा लोगसना य" ति उपयोगमात्रमोघसंज्ञा लोकसंज्ञा स्वच्छन्दविकल्पिता विश्वगमा लौकिकैराचरिता, तद्यथा - अनपत्यस्य न सन्ति लोका इत्यादि, अन्ये तु व्याचक्षते ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञा ज्ञानोपयोग इति, अत्रोच्यते, इहौषसंज्ञा स्तोकत्वाद् आहारादिसंज्ञाश्चानिष्टत्वानाधिक्रियते, यथा न कार्षापणमात्रेण धनवानभिधीयते मूर्त्तिमात्रेण वा रूपवानिति, किन्तु यथा प्रभूतरत्नादिसमन्वितो धनवान् प्रशस्तमूर्तियुक्तश्च रूपवानभिधीयते, एवं महती शोभना च संज्ञा यस्यास्त्यसौ संज्ञीति, विशिष्टतरा च विकलेन्द्रियसंज्ञेत्यलं विस्तरेण, 'सेल' मित्यादि, सोऽयं हेतुपदेशन । 'से किं त' मित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन?, दृष्टिः-दर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तदुपदेशन तन्मतापेक्षया
०
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः
~84~
N
॥ ७९ ॥