________________
आगम
(४४)
प्रत
सूत्रांक
[३९]
गाथा
॥८१॥
दीप
अनुक्रम [१३१
१३२]
“नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः)
मूलं [३९] / गाथा ||८१||
नन्दीहारिभद्रीय
वृत्ती
॥ ७७ ॥
माह, लब्ध्यक्षरं समुत्पद्यते कुतश्चिच्छन्दादेर्निमित्तात् सञ्जाततदावरणकर्मक्षयोपशमस्य लब्ध्यक्षरं समुत्पद्यते - अक्षरोपलम्भः सञ्जायते, एतदुक्तं भवति-शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि शाङ्ख इत्याद्यक्षरानुषक्तं विज्ञानमुत्पद्यते, १४ तच्चानेकप्रकारं तद्यथा श्रोत्रेन्द्रियलब्ध्यक्षरमित्यादि, इह श्रोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याद्यक्षरद्वयलाभः श्रोत्रेन्द्रियनिमित्तत्त्वाच्छोत्रेन्द्रियलब्ध्यक्षरामिति, एवं शेषेष्वपि भावनीयं, 'से त' मित्यादि, तदेतल्लब्ध्यक्षरं, 'से त' मित्यादि, तदेतदक्षरात्मकं अक्षरं च तदिति वा श्रुतं चाक्षरथुतं, तत्र संज्ञाव्यञ्जनाक्षरे द्रव्यश्रुतं लब्ध्यक्षरं पुनर्भावश्रुतं लब्धेर्विज्ञानरूपत्वात् ।। 'से किं तमित्यादि, अथ किं तदक्षरतम् १, २ अनक्षरः शब्दः कारणं कार्यमनक्षर अनेकविधम्- अनेकप्रकारं प्रज्ञप्तम्, तद्यथा
ऊससियं०गाहा || ( * ८१-१८७ ) । उच्छ्वसनमुच्छ्वसितं भावे निष्ठाप्रत्ययः तथा निःश्वसनं निःश्वसितं निष्ठीवनं निष्ठ्यूतं, कासनं कासिवं, चशब्दः समुच्चयार्थः, क्षवणं श्रुतं चशब्दः समुच्चयार्थ एत्र, अस्य व्यवहितः सम्बन्धः, कथं?, सेंटित चानक्षरं श्रुतमिति वक्ष्यामः, निःसङ्घनं निःसङ्घितं, अनुस्वारवदनुस्वारं, अक्षरमपि यदनुस्वारव दुच्चार्यते, 'अनक्षर' मित्येतदुच्छ्वसिताद्यनक्षरश्रुतमिति, सेण्टनं सेटितं तत् सेंटितं चानक्षरश्रुतमिति, इदं चोच्छ्वसितादि द्रव्यप्रतमात्रं ध्वनिमात्रत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं तस्य तद्भावेन परिणतत्वात्, आह-यद्येवं किमित्युपयुक्तस्य चेष्टाऽपि श्रुतं नोच्यते, येनोच्छ्वसिताद्येवोच्यते इति, अत्रोच्यते, रूख्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्योच्छ्वसिताद्येव श्रुतमुच्यतेन चेष्टा, तदभावादिति, अनुस्वारादयस्त्वर्थगमकत्वादेव श्रुतमिति, 'से त' मित्यादि, तदेतदनक्षरश्रुतम् ।
मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः
~82~
लब्ध्यक्षरं अनक्षरश्रुतं
॥ ७७ ॥