________________
आगम (४४)
"नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
मूलं H / गाथा ||-||
प्रता
सूत्रांक
- गाथा ||-||
नन्दी- परमपदप्राप्तिहेतुत्वाच्छ्योभूतो वर्त्तते, श्रेयांसि बहुविनानि भवन्ति, यथोक्तम्-"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि | हारिभाद्रपद प्रवृत्तानां, कापि यान्ति विनायका ॥१॥' इति, अतोऽस्य प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ शम्दार्थ: नन्दिरिति का शब्दार्थः?, उच्यते, 'दु णदि समृद्धा' वित्यस्य धातोः 'इदितो नुम् धातो' रिति (७-१-५८) नुमि विहितेनुबन्ध
निक्षेपाव काही लोपे च कृते उणादिकः इन् प्रत्ययो विधोयते, 'इन् सर्वधातुभ्य' इति वचनाद्, अनुबन्धलोपे च कृते सति नन्दि, सो रुत्वं विस
हजनीयश्चेति नन्दिः, नन्दनं नन्दिः नन्दन्त्यनेनेति वा नन्दन्त्यस्मिन्निति वा नन्दयतीति वा तदभेदोपचारामन्दिः हर्षः प्रमोद
का इत्यनर्थान्तरं, 'ताम्यामन्यत्रोणादय' इति वचनात् ताभ्यामिति सम्प्रदानापादानाम्यां अन्यत्र उणादयः प्रत्यया भवन्ति, अन्ये तु12 दिनन्दीत्यभिदधति, तत्रापि नन्दिस्थिते 'इक् कृष्यादिभ्य' इति (उणा.) इक् प्रत्ययः, स च कृत्यलुटो बहुल' (३-३-११३)मिति
वचनादावे करण वा अवगन्तव्य इति, ततः 'कृदिकारावक्तिनः, (वार्तिक) 'सर्वतोऽक्तिनादित्येक' इति खीप्रत्ययः, अस्य। भावार्थः कृदिकारान्तो यः शब्दः क्तिन्वर्जितस्तस्मात् स्त्रीप्रत्ययो भवति, अपरे तु सर्वतः अक्तिमादिकारान्तात् स्त्रीप्रत्ययो भवतीति मन्यन्ते, अनुवन्धलोपे चकते 'यस्ये' (६-४-१४८) तीकारलोपे च नन्दीति रूपं भवति, नन्दन नन्दी नन्दन्त्यनयेति वा भव्याः। प्राणिन इति नन्दी, इत्यलमप्रस्तुतातिप्रसनेनेति।
___ अयं च नन्दिश्चतुर्विधः, तद्यथा- नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनन्दिश्चेति, तत्र नामस्थापने प्रकटार्थे, द्रव्यनहन्दिर्बिंधा-आगमतो नोआगमतब, तत्रागमतो नन्दिपदार्थः तत्र च अनुपयुक्तः 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगमतस्तु
शरीरद्रव्पनन्दिः भव्यशरीरद्रव्यनन्दिः शरीरमव्यशरीरव्यातिरिक्तश्च द्रव्यनन्दिः, तत्र शरीरद्रव्यनन्दिः नन्दिपदार्थज्ञस्य
दीप अनुक्रम
5
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ... नन्दीसूत्रस्य अर्थ एवं निक्षेपाः