________________
आगम
(४४)
प्रत सूत्रांक
[२९-३१]
गाथा
||68..||
दीप
अनुक्रम [११३
११५]
नन्दीहारिमद्रीय
वृचौ
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [२९-३१] / गाथा ||७४...||
॥ ६४ ॥
'से किं तमित्यादि ( २९-१६२ ) अथ कोऽयं व्यञ्जनावग्रहः इत्यत्र पुनरुत्पत्तिक्रम एवाश्रितो यथासम्भवमिति सुश्लिष्टमेतदिति, प्रकृतमुच्यते - व्यञ्जनावग्रहश्रतुर्विधः प्रज्ञप्तः, तद्यथा श्रोत्रेन्द्रियव्यञ्जनावग्रह इत्यादि सूत्रसिद्धं । आह-पञ्चेन्द्रियमनःसद्भावे सति किमित्ययं चतुर्विध इति ?, अत्रोच्यते, नयनमनसोरप्राप्तकारित्वाद्, अप्राप्तकारित्वं च विषयकृतानुग्रहोपघातशून्य४ स्वात् प्राप्तकारित्वे पुनरनलजलशूलाद्यालोकने दहनक्लेदनपाटनादयः स्युः, अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थे नालम्बत इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ भास्करकिरणादिनेति, अन्यस्त्वाह-व्यवहितार्थानुपलब्धेरनुमानाद प्राप्तकारित्वं लोचनस्येति एतदयुक्तं, नैकान्तिकत्वाद्, रुचोऽभ्रपटलस्फटिकान्तरितोपलब्धेः स्यादेतत्-नायना रश्मयो निर्गत्य तमर्थ गृहन्तीति दर्शने रश्मीनां तैजसत्वात्, तेजोद्रव्यैरप्रतिस्खलनाददोष इति एतदप्ययुक्तं, महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यं तन्तु नोच्यते ग्रन्थविस्तरभयाद्गमनिकामात्रमेतदिति ।
'से किं तमित्यादि ॥ ३०-१७३॥ अथ कोऽयमर्थावग्रहः ?, अर्थावग्रहः षड्विधः प्रज्ञप्तः, तद्यथा— श्रोत्रेन्द्रियार्थावग्र ह इत्यादि सूत्रसिद्धं यावत् ।
'तस्स णं इमे' इत्यादि ॥ * ३१ - १७४ ॥ तस्यावग्रहस्यानूनि णं पूर्ववत्, अवग्रहसामान्यापेक्षयैकार्थिकानि नानाघोपाणि नानाव्यञ्जनानि पञ्च नामधेयानि भवन्ति, घोषा उदात्तादयः कादीनि व्यञ्जनानि, नामैव नामधेयं, अवग्रहविशेषापेक्षया तु कथंचित् भिन्नार्थानि त्रिविधश्वावग्रहः - सामान्यावग्रहो विशेषावग्रहः विशेषसामान्यार्थावग्रह श्रेति, तत्र भिन्नार्थता निदर्श्यते
मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः
~69~
अवग्रहैकार्यता
॥ ६४ ॥