________________
आगम
(४४)
प्रत
सूत्रांक
[१३-१५]
गाथा
।।५५..।।
दीप
अनुक्रम [७२-७६]
नन्दीहारिभूद्रीय वृत्तौ ।। ३९ ।। तु
“नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः)
मूल [१३-१५] / गाथा ||१५||
सुमो य० गाहा ।। (५५-९०) ।। सूक्ष्मश्च श्लक्ष्णश्च भवति कालः यस्मादुत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्र, कृतः १, यस्मादंगुलश्रेणिमात्रे क्षेत्रे, प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयास्तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अंगुलश्रेणिमात्रक्षेत्र प्रदेशानं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः । सेतं इत्यादि, तदेतद्वर्द्धमानकं अवधिज्ञानमिति ।
'से किं तमित्यादि ॥ (१३-९६ ।। अथ किं तद्धीयमानकी, २ कथंचिदवाएं सत् अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य सतः अविरतसम्यग्दष्टेर्वर्त्तमानचारित्रस्य देशविरतादेः संश्यिमानस्य बध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्लेशमासादयतः अविरतसम्यग्दृष्टेरेव, संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः परिक्षीयते, तदेतद्धीयमानकमवधिज्ञानमिति ।।
'से किं त' मित्यादि ॥ (१४-९६) ।। अथ किं तत् प्रतिपात्यवधिज्ञानं१, २ 'जन्न' मिति, यदवधिज्ञानं जघन्येन सर्वस्तोकतयाऽगुलस्यासंख्येयभागमात्रं वा, उत्कर्षेण सर्वप्रचुरतया यावल्लोकं दृष्ट्वा लोकमुपलभ्य तथाविधक्षयोपशमजन्यत्वात् प्रतिपतेत् न भवेदित्यर्थः, तदेतत् प्रतिपात्यवधिज्ञानं इति, क्रियाशेषं प्रायो निगदसिद्धं, नवरं पृथक्त्वमिति द्विप्रभृतिरानवस्य हाते सिद्धान्तपरिभाषा, तथा हस्तद्वयं कुक्षिरुच्यते, चत्वारो हस्ता धनुरिति, 'से त' मित्यादि, तदेतत्प्रतिपात्यत्राधज्ञानम् ॥
'से किं तमित्यादि ।। (१५-९७)।। अथ किं तदप्रतिपात्यवधिज्ञानं ?, 'जेणं' ति येनावधिज्ञानेनालोकस्य सम्बन्धिनं एकमप्याकाशप्रदेशं, अपिशब्दामहून् वा, पश्येत् शक्त्यपेक्षयोपलभेत, एतावत्क्षयोपशमप्रभवं यत् 'तत ऊर्ध्व' मिति तत आरभ्याप्रति
९ वर्धमानादि भेदाः
~44~
# 11 38 11
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः