________________
आगम
(४०)
प्रत
सूत्रांक
[..]
गाथा
||||
दीप
अनुक्रम
[3]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [ २ ], निर्युक्तिः [ १०८५-१०८७] वि० भा० गाथा [-] भाष्यं [ २०५...] मूलं [१...] / गाथा [१] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
स्वित्तम्मि जंमि खित्ते काले जो जम्मि होइ कालम्मि । दुविहो उ होइ भावे अपसत्थो तह पसत्थो अ || १०८५ ॥
यो यस्मिन् क्षेत्रे शुल्कादिरूपो विचित्रः करः स क्षेत्रे क्षेत्रविषयः करः, तथा यो यस्मिन् काले भवति कुटिकादानादिरूपः करः स काले कालकरः, द्विविधश्च भवति भावे भावकर, द्वैविध्यमेव दर्शयति-प्रशस्तः तथा अप्रशस्तश्च तत्राप्रशस्तपरित्यागात् (प्रशस्तो महतीति ) प्रशस्तमेवाभिधित्सुराह
कलहकरो डमरकरो असमाहिकरो अनिवुझ्करो अ । एसो अ अप्पसत्थो एवमाई मुणेअघो । १०८६ ॥ आह-उक्तप्रयोजन सद्भावात् तदुद्देशेऽप्ययमेवादावप्रशस्तः कस्मान्नोपन्यस्तः १, उच्यते, इह मुमुक्षुणा प्रशस्त एव भाव आसेवनीयो, नेतर इति ख्यापनार्थमादौ प्रशस्त उक्त इत्यदोषः, तत्र कलहो - वाचिकं भण्डनं तत्करणशीलोsप्रशस्तक्रोधाद्यौदयिक भाववशतः कलहकरः, कायवाङ्मनोभिर्विचित्रं ताडनं डमरं तत्करणशीलो डमरकरः, तथा समाधानं | समाधिः- स्वास्थ्यं न समाधिरसमाधिः - अस्वास्थ्यनिबन्धना सा सा कायादिचेष्टा तत्करणशीलोऽसमाधिकरः, निर्वृत्तिः-सुखं अनिर्वृत्तिः पीडा तत्करणशीलोऽनिर्वृत्तिकरः, एप तुशब्दस्यावधारणार्थत्वादेप एव जात्यपेक्षया न व्यक्त्यपेक्षया, एवमादिर्व्यक्त्यपेक्षया, अप्रशस्तो भावकरो ज्ञातव्यः ॥ सम्प्रति प्रशस्तं भावकरमभिधित्सुराह— अत्थकरो हिअकरो कित्तिकरो गुणकरो जसकरो अ । अभयंकर निव्वुइकरो कुलगर तित्थंकरतकरो || १०८७ ||
अर्थो नाम विद्याsपूर्व धनार्जनं शुभमर्थ इति ततः प्रशस्तविचित्रकर्म्मक्षयोपशमादिभावतस्तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं परिणामपथ्यं यत्किञ्चित्कुशलानुबन्धि, कीर्त्तिः- दानपुण्यफला गुणा-ज्ञानादयः
Por Private & Personal Use Only
~315~