________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४०], वि०भा०गाथा [३३८३], भाष्यं [१७५-१७६], मूलं [१] / गाथा । मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
कथं-केन प्रकारेण सामायिकं लभ्यते इति वक्तव्यमिति गाथासङ्ग्रेपार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्रा-18 द्यद्वारप्रतिपादनार्थमाह
उप्पन्नाणुप्पन्न कयाकयं इत्थ जह नमुक्कारे । केणंति अस्थओ तं जिणेहिं सुसं गणहरेहिं ॥ १७५ ॥ (भा.) | कृताकृतं नाम उत्पन्नानुत्पन्नमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अत्र नैगमादिनयभावना कार्या, तथा चाह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेण स्वयं भावनीया । द्वारम् । अधुना द्वितीयद्वारमधिकृत्याह-केनेति केन कृतमित्यत्र निर्वचन- अर्थतः' अर्थ-12
मङ्गीकृत्य तत् सामायिकं जिनवरैः, सूत्रं त्वङ्गीकृत्य गणधरैः कृतं, व्यवहारनयमतमेतत् , निश्चयनयमतं तु व्यक्त्यपेक्षया आयो यत्स्वामी सत्तेनैव, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासः प्रधानन्यक्तित्वाद्, अन्यथा पुनरुक्तदोपप्रसङ्गः ॥ तथा चात्रोकं भाष्यकारेण-"ननु निग्गमे गयं चिय केण कयं तंति का पुणो पच्छा । भन्नइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ॥१॥"(विशे. ३३८३) बाह्यकर्ता सामान्येन अन्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना । साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद्विवृण्वन्नाहट्र तं केसु कीरई ? तत्थ नेगमो भणइ हहदवेसं । सेसाण सपदवेसु पजवेसुं न सबेसु॥१७६ ॥ (भा.)
'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः क्रियते-निवर्त्यते इति प्रश्नः, अत्र नयविभागेन निर्वचनं, तत्र नेगमो भाभणति-नैगमनयो भाषते, इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वात् मनोज्ञेष्येव शयनासनादिषु द्रव्येषु, तथा च तेषा
PARKARNAKAR
SMEducation
~259~