________________
आगम
(४०)
प्रत सूत्रांक
[3]
दीप
अनुक्रम
[२]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०२८-१०२९] वि० भा० गाथा [-] भाष्यं [१५२-१५३], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
इह यथासम्भवं द्रव्यकरणशब्दस्य व्युत्पत्तिः- द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणमिति, द्रव्यकरणं द्विधा- आगमतो नोआगमतश्च, आगमतः करणशब्दार्थज्ञाता तत्र चानुपयुक्तो, नोआगमतस्त्रिधा - ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीरे प्रतीते, ज्ञभव्यातिरिक्तं-ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्विधा- 'सन्नानोसन्नओ भवे कर'ण'मिति, संज्ञाकरणं नोसंज्ञाकरणं व तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिका अभिधीयते, अयमत्र भावार्थ:- कटनिर्वर्त्तकमयोमयं चित्रसंस्थानं पाइलकादि तथा रूतपूणिकानिर्वर्त्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणम्, अन्वर्थोपपत्तेः संज्ञाविशिष्टं द्रव्यस्य करणं संज्ञाद्रव्यकरणं, आह- इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणम्, अतो न कश्चिद्विशेषः, तदयुक्तं, नामकरणमिहाभिधानमात्रं करणमित्यक्षरत्रयात्मकं परिगृह्यते, संज्ञाकरणं तु करणादिसंज्ञाविशिष्टं कटादेर्निर्वर्त्तनाय करणं ततो महान् विशेषः, आह च भाष्यकार ः- सन्नानामंति मई तन्नो नामं जमभिहाणं ॥ जं वा तदत्थविकले कीरइ दबं तु दवणपरिणामं । पेलुकरणादि न हि तं तदत्थसुन्नं नवा सद्दो ॥ १ ॥ जइ न तदत्थविहीणं, तो किं दबकरणं जतो तेणं । दबं कीरइ सन्नाकरणंतिय करणरूढीतो ॥ २ ॥ आसामतृतीयगाथानामयं सङ्क्षेपार्थः ननु संज्ञा नामेत्यनर्थान्तरं ततः संज्ञाकरणनामकरणयोर्न कश्चिद्विशेषः, तदेतन्न, यस्मात् | करणमित्यक्षरत्रयात्मकमभिधानमात्रं नाम, यद्वा तदर्थविकले वस्तुनि सङ्केतमात्रतः करणमिति नाम क्रियते तन्नामकरणं, संज्ञाकरणं तु पेलुकरणादिकं द्रव्यं तेन तेन पूणिकादिकृतिसाधकतमरूपेण यद् द्रविणं तत्र द्रवणपरिणामं, नहि तत् पेलुकरणादि तदर्थविहीनं, पूणिकादिकृतिसाधकतमपरिणामान्वितत्वात् नापि शब्दः करणमित्यक्षरत्रयात्मकं ततो महान्
For Private & Personal Use Only
~237~