________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [८३०], वि०भा०गाथा H], भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक H
॥ श्रीआवश्यकमलयगिरीयवृत्तौ चतुर्थ-भाग: सम्प्रति केष्विति द्वारं व्याचिख्यासुराहसधगयं सम्म सुए चरित्ते न पजवा सधे । देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ।। ८३० ।।
अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमित्याशङ्कायामुक्तं-सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात्तस्य, तथा श्रुते-श्रुतसामायिके चारित्रे-चारित्रसामायिके न सर्वे पर्याया विषयाः, श्रुतस्याभिलाप्यपर्यायविषयत्वात् द्रव्यस्य च अभिलाप्यानभिलाप्यपर्याययुक्तत्वात् , चारित्रस्यापि 'पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रागेव प्रतिपादितत्वात् , देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः, आह-अयं सम्यक्त्वविषयः किंद्वारे प्ररूपित एव ततः किं पुनरभिधानमिति !, उच्यते, प्राग् विषयविषयिणोरभेदेन किं तदिति सामायिकस्य किंद्वार एवं द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानमित्यदोषः । आह च भाष्यकृत्-नणु सामाइयविसओ किंदारंमिवि परूवितो पुषं । कह न पुणरुत्तदोसो डोज हुई? को विसेसोया? ॥२७५९ ॥ अनोत्तरम्-किं तंति जाइभावेण तत्थ इह नेयभावतोऽभिहियं । इह विसय-1 विसहभेओ तत्थाभयोययारोत्ति ॥ २७६०॥ (विशे.) केष्विति गर्त, सम्प्रति कथमिति द्वारं वक्तव्यं, कथं सामायिकमवाप्यते इति, तत्र चतुर्विधमपि सामायिकं मनुष्यत्वादिस्थानावाप्तौ सत्यामवाप्यत इति तत्क्रमदुर्लभताख्यापनार्थमाह
दीप
अनुक्रम
आ.म.७६४
... अत्र नियुक्ति: (८३०) अष्ट शताधिक त्रिंशत: आवश्यक-मलयगिरेः वृत्ते: चतुर्थ एवं अंतिम भाग: आरभ्यते
~23~