________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ९५८ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
दुयं जाइ । तह कम्मबंधणच्छेयणेरितो जाइ सिद्धोऽवि ॥ १ ॥” तथा कर्म्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकात् गच्छति, तथा स्वाभाविकपरिमाणत्वात्, अग्निधूमवत् उक्तं च- "उद्धंगइपरिणामो जह जलणस्सा जहेव धूमस्स । उद्धंगतिप रिणामो सभावतो तह विमुकस्स ॥ १ ॥” तथा कर्म्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकाद् गच्छति, पूर्वप्रयुक्त क्रियातथाविधसामर्थ्यात् धनुः प्रयक्षप्रेरितेषुवत् यथा धनुषा पुरुषप्रयलेन प्रयलप्रेरितस्येपोर्गतिकारणविगमेऽपि पूर्वप्रयोगात् गतिः प्रवर्त्तते एवं कर्म्मविमुक्तस्यापि जीवस्येति भावः, आह च- "जह धणुपुरिसपयत्तेरितेसुणो भिन्नदेसगमणं तु । गइकारण विगमंमिवि सिद्धं पुबधपयोगातो ॥ १ ॥ बंधच्छेयणकिरिया विरमेवि तहा विमुञ्च्चमाणस्स । तस्साऽऽलोगंतातो गमणं पुचप्पओगातो ॥ २ ॥ उपलक्षणमेतत् तेन यथा कुलालचक्रं क्रियाहेतुविगमेऽपि पूर्वप्रयोगतः सक्रियं तथा जीव| स्यापि कर्म्मणा मुध्यमानस्य पूर्वप्रयोगतो गतिरित्यपि निदर्शनं द्रष्टव्यम् उक्तं च- "जह वा कुलालचकं किरियाहेतु विरमेऽवि सक्किरियं । पुबप्पओगतोच्चिय तह किरिया मुयमाणस्स ॥ १ ॥” एवं प्रतिपादिते सत्याह
कहिं पहिया सिद्धा ?, कहिं सिद्धा पट्टि ? | कहिं बुंदिं चहत्ताणं ?, कत्थ गंतूण सिज्झति ? ॥ ९५८ ॥ क्व प्रतिहताः- क प्रतिस्खलिताः सिद्धा - मुक्ताः, तथा क्व सिद्धाः तथा प्रतिष्ठिता व्यवस्थिताः, बोंदिः - तनुः शरीरमित्यनर्थान्तरं, क बोदिं त्यक्त्वा परित्यज्य व गत्वा सिद्ध्यन्ति निष्ठितार्था भवन्ति ?, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव यतोऽन्यत्रापि प्रयोगः - "वत्थगंधमलंकारं इत्थीतो सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति बुच्चइ ॥ १ ॥ इति, इत्थं चोदकेनो के सति प्रतिसमाधानमाह
Por Private & Personal Use Only
~205~