________________
आगम
(४०)
आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९४८], वि०भा०गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
अनुक्रम [१]
कथंचनापि सीवितं यथा सर्वथा न ज्ञायते, यथा स्वामिसत्कं देवदुष्यं धिग्जातीयेन कारितं ८ । वडइत्ति वर्द्धकिरभ्यासतः कोऽप्यमाप्यापि देवकुलरथादीनां प्रमाणं जानाति ९॥ पूइयत्ति आपूपिकः कणिक्कादिकममाप्यापि पूपपरिमाणं जानाति, यथा एतावत्कणिक्कादेरेतावत्यः पूपा भविष्यन्ति, सर्वा अपि वा समाः करोति १० । 'घडे' ति घटकारः प्रथमत एतावप्रमाणां मृत्तिकां गृह्णाति यावन्मात्रया विवक्षितं घटादिकं निष्पद्यते इति ११॥ चित्तकारेत्ति चित्रकारो अमाप्यापि रेखादिकं प्रमाणयुक्तं चित्रं करोति, तावन्मानं वा वर्णकं गृह्णाति यावन्मात्रेण समाप्यते इति २१ । सर्वेषामेतेषां कर्मजा बुद्धिः। उक्ता कर्मजा बुद्धिः, सम्पति पारिणामिक्या लक्षणं प्रतिपादयन्नाह- - अणुमाण-हेउ-दिहतसाहिआ वयविवागपरिणामा । हिअनिस्सेयसफलवई बुद्धी परिणामिआ नाम ॥९४८॥ | अनुमानहेतुदृष्टान्तैः साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रलातिपादकं वचो हेतुः, परार्थमनुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतुः, दृष्टमर्थमंतं नयतीति दृष्टान्तः, ननु
अनुमानग्रहणादेव दृष्टान्तो गत इति किमर्थमस्योपन्यासः?, तदसम्यक्, अनुमानस्य तत्त्वत एकलक्षणत्वात् , उक पाच-'अन्यधानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥ १॥ इत्यादि साध्योप-12 दामाभूतस्तु दृष्टान्तः, उक्तं च-'यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते” इति, बयोविपाकपरिणामा इति कालकृतो|
देहावस्थाविशेषो वयः तद्विपाकेन परिणामः-पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम्-अभ्युदयः तत्का
JaMEduputanimal
~175