________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-३ अध्ययनं [-], नियुक्ति: [६५७-६५८], विभा गाथा [-], भाष्यं [१३२...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
गणपराणामा
प्रत
युरादि
सत्राक
दीप अनुक्रम
आवश्यके इन्द्रभूतेः सर्वायुनिवतिर्वाणि, अग्निभूतेश्चतुःसप्ततिः, वायुभूतेः सप्ततिः, यकस्य अशीतिः, सुधर्मस्य एकं वर्षशत, श्रीमलय- मण्डिकस्य पञ्चनवतिर्वर्षाणि, मौर्यपुत्रस्य त्र्यशीतिः, अकम्पिकस्याष्टसप्ततिः, अचलभातुर्दासप्ततिः, मेतार्यस्य द्वाषष्टिः, समवसरणे प्रभासस्य चत्वारिंशत्, एवं क्रमेण गणधराणां सर्वायुष्कमिति ॥ आगमद्वारप्रतिपादनार्थमाह
सवे य माहणा जचा, सधे अज्झावया विऊ । सो दुवालसंगीआ, सबै चउदसपुविणो ॥ ६५७ ॥ सर्वे ब्राह्मणा जात्याः-प्रशस्तजातिकुलोत्पन्नाः, तथा सर्वेऽध्यापका-उपाध्याया विदन्तीति विदो-विद्वांसा, चतु-18 ईशविद्यास्थानपारगमनात्, तानि चतुर्दश विद्यास्थानान्यमूनि—“अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः। धर्मसाशास्त्र पुराणं च, विद्या ह्येताश्चतुर्दश ॥१॥” तत्राङ्गानि षट्, तद्यथा-शिक्षा कल्पो व्याकरणं निरुक्क छन्दो ज्योतिष ट्राचेति, एष गृहस्थागम उक्तः, लोकोत्तरागमप्रतिपादनार्थमाह-सर्वे द्वादशानिनः, तत्र स्वल्पेनापि द्वादशाङ्गाध्ययनेन र द्वादशानिनोऽभिधीयन्ते ततः सम्पूर्णद्वादशाङ्गज्ञापनार्थमाह-सर्वे चतुर्दशपूर्विणः ॥ परिनिर्वाणद्वारमाह
परिनिबुया गणहरा जीवंते नायए नव जणा उ । इंदभूई सुहम्मो अ रायगिहे निबुए वीरे ॥ ६५८॥ जीवति ज्ञातके-शांतकुलोत्पन्ने वीरे भगवति नव जनाः-इन्द्रभूतिसुधर्मस्वामिवर्जाः परिनिर्वृताः, इन्द्रभूतिः सुधर्मश्च स्वामिनि वीरे निर्वृते परिनिर्वृतः, तत्रापि प्रथममिन्द्रभूतिः पश्चात्सुधर्मस्वामी, यश्च यश्च कालं करोति सस सुधर्मस्वामिनो गणं ददाति, तेषां तथाविधसन्तानमवृत्तिहेतुभूताचार्यासम्भवाद, सुधर्मस्वामी तु कालं कुर्वन् | निजशिष्याय जम्बूस्वामिने गणं समर्पितवान् ॥ अधुना तपोद्वारमाह
+4
JanEncoomnish
Helmarary.org
For
Per
t
h
~94~