________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्तिः [६२९-६३२], वि० भा० गाथा [-], भाष्यं [ १३२...], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
वैकमस्ति न पापं तदेव चावाधप्रकर्षावस्थं स्वर्गाय क्षीयमाणं मनुष्यतिर्यनरकादिभवफलाय, तदशेषक्षयाञ्च मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनादुत्कृष्टमारोग्यसुखं भवति, किश्चित्पथ्याहारपरिवर्जनाच्चारोग्यसुखहानिः, अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति तदेव चोत्तमास्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तिर्यङ्गरामरभवायेति, तदत्यन्तक्षयाच्च मोक्ष इति यथा अत्यन्तापथ्याहारसेवनात् परममनारोग्यं तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखं, अशेषपरित्यागात् मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्र - सुखदुःखाख्य हेतुफलभूतं, तथाहि नैकान्ततः किल संसारिणः सुखं दुःखं वाऽस्ति, देवानामपि चेर्ष्यादियुक्तत्वात्, नारकाणामपि वा पञ्चेन्द्रियत्वानुभवात् इत्थंभूतपुण्यपापाख्यबस्तुक्षयाच्च मोक्ष इति, अपरेषां तु स्वतन्त्रमुभयं विविधसुखदुःखकारणं, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, तदेवं दर्शनानां परस्परविरुद्धत्वेनाप्रमाणत्वादस्मिन् विषये प्रमाणाभाव इति । तथा 'पुण्यः पुण्येनेत्यादिना प्रतिपादिता तत्सचा, ततः संशयः, तत्र वेदपदानां चार्थे, चशब्दात् युक्तिं हृदयं च न जानासि, यतस्तेषामयमर्थः, तत्र यथा द्वितीयगणधरवतव्यतायां वेदपदानामर्थः स्वभावपक्षनिराकरणप्रवणोऽभिहितस्तथाऽत्र वक्तव्यः, सामान्यकर्म्मसिद्धिरपि तथैव वक्तव्या, यच दर्शनानामप्रामाण्यं परस्पर| विरुद्धत्वेन मन्यसे तदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथाहि पाटलिपुत्रादिविविधस्वरूपाभिधायकाः सम्यकस्वरू पाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते तत्र यत्प्रमाणं तत् अप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तावत्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् स्वल्पस्यापि स्वसुख
in Education International
For Private & Personal Use Only
~81~
www.jantibrary.org