SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [६१८-६२०], विभा गाथा -], भाष्यं [१३२...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: % प्रत * सूत्राक कावा एष बाह्यम्-आत्मव्यतिरिकं महदहकारादि आभ्यन्तरं वा-स्वरूपमेव वेद-जानाति, प्रकृतिपयवाद ज्ञानस, प्रकृतेश्चाचेतनत्वादिति बन्धमोक्षानुपपचिरिति भावः, तदेवममूनि किळ बन्धमोक्षाभावप्रतिपादकानि, तथा नह वै. नैवेत्यर्थः, सशरीरस्य-वाह्याध्यात्मिकानादिशरीरसन्तानयुक्तस्य प्रियाप्रिययोः-सुखदुःखयोरपहतिः-विनाशोऽस्ति, संसाकारिणः सुखदुःखाभावो नास्तीत्यर्थः, अशरीरं-शरीररहितं सन्तं, वावशब्दो निपातो वाशब्दार्थः, अशरीरी वा सन्तं प्रियाप्रिये न स्पृशतः, न सुखदुःखे अनुषजतः कारणाभावात् , अनि किल वाक्यानि मोक्षाभिधायकानि. ततः संशयः, अन्य। च-अयं सौम्या तवाभिप्रायः-बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमान आदिरहितो वा !, तत्र बदि प्रथमो विकल्पस्ततो विकल्पत्रयप्रसङ्गः, किं पूर्वमात्मनः प्रसूतिः पश्चात्कर्मणः यदिवा पूर्व कर्मणः पश्चादात्मनः आहोश्चित् युगपदुभ-| यस्पेति, किश्चातः, सर्वत्रापि दोषः, तथाहि-न तावदात्मनः पूर्व प्रसूतिनिर्हेतुकत्वात् , व्योमकुसुमवत्, नापि कर्मणः प्राक्प्रसूतिः कर्तुरभावात् , न चाकृतं कर्म भवति, युगपत्प्रसूतिरप्ययुक्ता, कारणाभावात् , न च अनादिमत्यप्यात्मनि । वन्धो घटामटाट्यते, कारणाभावात् , गगनस्येव, इत्थं चैतदङ्गीकर्तव्यमन्यथा मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावात् , दतथा च सति नित्यमुक्तत्वात् मोक्षानुष्ठानवेयर्यमिति, अथ द्वितीयः पक्षस्तहि नात्मकम्मवियोगो भवेद् अनादित्वात् | आकाशसंयोगवदिति मोक्षानुपपत्तिरिति, तत्र वेदपदानामयमर्थः स एषः-मुक्तात्मा विगताः छानस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-ज्ञानात्मना सर्वगतः, केवलज्ञानस्य सकललोकावभासित्वात् , तथा न बध्यते, मिथ्यादर्शनादि-11 बन्धकारणाभावाद, संसरति वा मनुष्यादिभवेषु, नेत्यनुवर्तते, कर्मवीजाभावात् , नापि मुच्यते, मुक्तत्वात् , न मोचयति | दीप अनुक्रम SHOCACKGROCALCCAN **%2001064%* JanEconn imel ~734
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy