________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [६१३-६१६], विभा गाथा [-], भाष्यं [१३२...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
*SAKX-24
दृश्यप्रापकानि ततः संशया, अभ्यच-यचेऽभिप्रायो यथा कारणानुरूपं कार्य भवति, न खलु शालिनीजात् गोधूमाकुरप्रसूतिः, ततो भवान्तरसादृश्यमेवोपपत्तिमत्, तत्र वेदपदानामर्थ चशब्दात् युकिं भावार्थ न जानासि, तेषां वेदपदानामयमर्थः-पुरुषः खल्विह जन्मनि स्वभावेन माईवाजवादिगुणयुक्तो मनुष्यनामगोत्रकर्मणी बद्धा मृतः सन् पुरुपित्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशृभावमायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बट्टा मृताः सन्तः पशुब्वमासादयन्ति, न तु नियोगतः, जीवानां गतिविशेषस्य कर्मसापेक्षत्वात् , शेषाणि तु वेदपदानि सुगमानि, न च नियमतः कारणानुरूपं कार्य, वैसदृश्यस्यापि दर्शनात्, तथाहि-शृङ्गाच्छरो जायते, तस्मादेव सर्पपानुलिसातु तृणानीति, गोलोमाविलोमभ्यां दूर्वा, ततो न नियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाङ्करबीजं सात्मकं कर्म, तच्च तिर्यग्नरामरनारकायुष्कादिभेदभिन्नत्वात् चित्रम्, अतः कारणवैचिंत्र्यात् : कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! किचिदिह लोके परलोके वा न सर्वधा समानमसमान वाऽस्ति, तथा चेह भवे युवा निजैरप्यतीतानागालवृद्धादिपर्यायैः सर्वथा न समानोऽवस्थामेदग्रहणात्, नापि सर्वथाऽसमानः सचायनुगमात्, एवं परलोकेऽपि मनुजो देवत्वमापनो न सर्वथा समानः, शरीरान्तरादिभावात्, नापि सर्वथाऽसमानो जीवत्वाद्यन्वयात् , इत्थं चैतदङ्गीकत्तंव्यमन्यथा दानदमदयादीनां वैयर्थ्यप्रसङ्गात् । एवं भगवताऽभिहिते स किं कृतवानित्याहछिन्नभि संसयंमी जाइजरामरणविप्पमुकेण । सो समणो पवइओ पंचहिं सह खंडियसएहि ॥ १६॥ व्याख्या पूर्ववत् ॥
॥ पञ्चमो गणधरः समाप्तः ।।
दीप अनुक्रम
ENTS
JanEthiconn inormananal
... अत्र मूल संपादने गाथा-क्रम || ६१६ || मुद्रितं तत् मुद्रणदोषः, सा गाथा || ६१७ || एव वर्तते
~71