________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [६१०-६१२], विभा गाथा -], भाष्यं [१३२...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
।
आवश्यके श्रीमलयसमवसरणे
प्रत
सत्राक
॥३२५॥
ज्ञानस्यालम्बनं परमाणवो वा स्युः परमाणुसमूहो वाऽवयवी वा !, तत्र न तावत्परमाणवस्तेषामिन्द्रियविज्ञाने प्रतिभा-ISभूतपय साभावात् , न खलु चाक्षुषे विज्ञाने परस्परविशकलिताः परमाणवः प्रतिभासन्ते, नापि समूहः, समूहो हि नाम द्वित्रा
सिद्धिः [दिपरमाणूनां संयोगः, स चानुपपन्न एव, विकल्पद्वयानतिक्रमात्, तथाहि-परमाणूनां संयोगो देशतो वा स्यात् व्यक्तगणसर्वात्मना वा', तत्र न तावद्देशेन, परमाणोर्देशाभावाद्, अन्यथा परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पत्तेः अथ सर्वात्मना पक्षस्तहि परमाणोः परमाणों प्रवेशादणुमात्रप्रसक्तिः, तथा च पठन्ति-"संजोगोऽवि य तेर्सि देसेणं सपहा । व होजा हि । देसेण कहभणुत्तं? अणुमेत्तं सथहा भवणे ॥१॥ (धर्म.६५१) अथ पे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगसमूहो, न देशेन सर्वात्मना वा, ततो न कश्चिद्दोषः, तदप्यसम्यक्, प्रत्येकमिव समुदितानामपि तेषामग्रहणप्रसङ्गात्, स्वस्वरूपावस्थितानां तेषामिन्द्रियगम्यत्वाभावात् , न च परस्परपत्यासन्नत्वमभ्युपपन्नं, तझ्यवश्यं पद्दिदग्भेदतो भवति, |दिग्भेदे च देशसम्भवादणुत्वव्याघातः, आह च-हाणी य अणुत्तस्सा दिसिभेदातो न अन्नहा घडइ । तेसि मिहो पंचा-1 समयत्ति परिफरगुमेयपि ॥१॥(धर्म०६५३) अथावयवीति पक्षः सोऽप्ययुक्तः, अवयविन एवासम्भवात् , तस्यावयवेषु वृत्त्ययोगात् , तथाहि-सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते सर्वात्मनावा ?, तत्र न तावद्देशेन अवयविनो देशाभावात्, अन्यथा तेष्वपि देशेषु देशेन वर्तेत, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ सर्वात्मना वर्हि यावन्तोऽवयवास्तावन्तोऽवयविन | इत्यवयविबहुत्वप्रसङ्गः, अथ न बेमो देशेन वर्तते सर्वात्मना वा, किन्तु वर्तते इत्येव, तत उक्तदोषाप्रसङ्गः, तदप्यश्लीलम्, उक्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्थासम्भवात् , अथ समवायलक्षणेन सम्बन्धेन वचते इति मन्येथास्तदप्ययुकं,
दीप अनुक्रम
-
॥२५॥
--
an den
466~