________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -], नियुक्ति: [६०४], विभा गाथा [१६३५,१६३७], भाष्यं [१२७-१३०], मूलं [-/गाथा-]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
*
%
प्रत सूत्रांक
%
RANC
कान
दीप अनुक्रम
वासना नाम वासकसम्पर्कनिबन्धना यथा तिलादौ गन्धवासना मालतीपुष्पादिसम्पर्क हेतुका, ततो यदि बोधसंताने वासना रागादिहेतुरभ्युपगम्यते त_वश्य बोधातिरिकं किञ्चिद्वासकमभ्युपगन्तव्यम्, अन्यथा वासनानुपपत्तेः, तथा |च सति सिद्धं नः पौगलिक कर्म, उकं च-वासनाऽप्यन्यसम्बन्ध, विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये, तिलादौ ४ नेष्यते यतः॥१॥वोधमात्रातिरिक्तं तु, वासक किञ्चिदिष्यताम् । मुख्यं तदेव नः कर्म, न युक्ता वासनाऽन्यथा ॥२॥
(शाखवा.) ये पुनरपरे माहुरात्मशक्तिरूपं कर्मेति त एवं प्रष्टव्याः-सा शक्तिरात्मनः स्वाभाविकी उतान्यसम्पकेसमुद्भवा , तत्र यद्याद्यः पक्षस्तदा मोक्षाभावप्रसङ्गः, आत्मस्वरूपस्येव तस्याः शकेरपनेतुमशक्यत्वात् , अन्यथानिरुपापिकात्मानुपपत्तेः, आत्माख्यवस्तुधर्मस्वभावोकदोषानुपङ्गास्तु तदवस्थ एव, अथ द्वितीयः पक्षा, तथा च सति यस्योपाधेः सम्पकेवशात् सा शक्तिरात्मनो नारकादिभवभ्रमणरूपा समुदपादि तदेवास्माकं पौगलिकं कर्मेति न काचित्क्षतिः। यदप्युक्तम् 'अन्यच्चामूर्त आत्मा मूर्त च कर्मे त्यादि, तदप्यसम्यक्, अमूर्तस्याप्याकाशस्य मूर्तेन घटादिना सह यदिवा? दव्यस्य पराभिप्रायेणामूर्तया क्रियया सह संयोगभावात् , उक्त च-"मुत्तस्सामुत्तिमया जीवेण कह हवेज संबंधो सोम ! घडस्सव नभसा जह वा दधस्स किरियाए ॥१॥” (वि.१६३५) तथा अमूर्तस्याप्यात्मनो मूर्तकर्मकृतावनुग्रहोपघातावविरुद्धी, विज्ञानस्य ब्राहयौपध्यादिमदिरापानादिभिरनुग्रहोपघातदर्शनात्, आह च-"मुत्तेणामुत्तिमतो उबघायाणुग्गहो कहं होजा। जह विनाणाईणं मदिरापाणोसहाईहिं ॥१॥" (वि. १६३७) एवं भगवताऽभिहितेऽग्निभूतिः किं कृतवानित्याह
++
+MAK4
For
Per
t
h
A
wainelibrary.org
~61