________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [६०४], विभा गाथा , भाष्यं [१२७-१३०], मूलं /-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
REACK
CACAKACNXर
दास शरीरी अशरीरीति वा !, तत्र यथायः पक्षस्ततः स शरीरी कथम् 1, अन्येन तच्छरीरकरणादिति चेत् ननु तत्रापीयमेव
वार्तेत्यनवस्थानुषङ्गा, अधाशरीरीति पक्षस्तदप्ययुक्तम् , अशरीरितया तस्याप्यारम्भकत्वायोगात्, स्वादेतद्-एष नः | सिद्धान्तो यदा कर्मरहितस्याप्यात्मनः शरीरकरणेच्छोपजायते तदा शरीरमारभते, आत्मनः सकलशक्तिसमन्वितत्वात्, हो अत एव मुक्तात्मनो न भूयः शरीरित्वप्रसङ्गः, शरीरकरणेच्छाया एवाभावात् , तदप्यश्लील, शुद्धस्य सतो रागद्वेषरहित
तया शरीरकरणेच्छाया एवाप्रवृत्तेः, मुक्तात्मवत्, ततः कर्मसद्वितीयःपुरुषः कर्तेति न सर्वाणि वेदपदानि कर्मसत्ताप्रति६षेधकानि, न तत् कर्म प्रत्यक्षप्रमाणगोचरातिक्रान्तं, मया साक्षात्प्रत्यक्षत उपलभ्यमानत्वात्, नाप्यनुमानगोचरातीतं भवतो
ऽप्यनुमानसिद्धत्वात् , तच्चेदमनुमानं-शरीरान्तरपूर्वकं बालशरीरमिन्द्रियादिमत्त्वात् युवशरीरवत्, न च वाच्यं
जन्मान्तरानीतशरीरपूर्वकत्वस्यास्माभिरभ्युपगतत्वात्सिद्धसाध्यता, जन्मान्तरशरीरस्यापान्तरालगतावभावेन तत्पूर्वकहत्यायोगात् , तस्मात्कार्मणशरीरपूर्वकं बालशरीरमिति सिद्धं कर्म, अन्यथा प्रतिनियतदेशस्थानगर्भप्राप्तिर्नरपश्यादिरू.
पेण वैचित्र्यं वा नोपपत्तिमत् , नियामकाभावात् , उक्तं च-"आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तञ्चित्रमदृष्टं कर्मसंज्ञकम् ॥१॥" अथ स्वभाव एव नियामको वैचित्र्यस्य न कम्र्मेति कर्मासिद्धिः, तदप्यनुपपन्नं, विकल्पाभ्यामयोगात, स हि स्वभावो वस्तुविशेषो वा स्यात् वस्तुधम्मों वा!,न तावत् वस्तुविशेषस्तस्याप्रामाणिकत्वात् , नहि स वस्तुविशेषः प्रत्यक्षप्रमाणसिद्धो नाप्यनुमानसिद्धोन चाप्यागमगम्य इत्यप्रमाणक एव, अन्यच्च-स वस्तुविशेषो मूर्ती वा अमूत्तो। दावा', यदि मूतः कर्मणोऽस्य न कश्चिद्भेदोऽन्यत्र संज्ञाभेदात, भवता हि वस्तुविशेष इति व्यवहियते मया तु कर्मेति,
दीप अनुक्रम
JanEthiconn inormananal
~59~