SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H Education F “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [ ५८९ ५९० ], वि० भा० गाथा [-] भाष्यं [ ११९...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः दुपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति ॥ आह-स गणधरः क निषण्णः कथयति । उच्यते- ओवणीयसीहासणोवविट्ठो य पायपीढे वा । जिट्ठो अन्नयरो वा गणहारि कहेइ बीयाए । ५८९ ॥ राज्ञा उपनीतं राजोपनीतं तच्च तत् सिंहासनं २ तत्र वा उपविष्टः, तदभावे तीर्थकरपादपीठे वा उपविष्टो ज्येष्ठोऽन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति, द्वितीयायां पौरुष्याम् ॥ आह-स कथयन् कथं कथयति १, उच्यतेसंखाईएवि भवे साहइ जं वा परो उ पुच्छिया । न उ (य)णं अणाइसेसी बियाणई एस छउमत्थो ॥ ५९० ॥ सङ्ख्यातीतान्, असङ्ख्येयानपीत्यर्थः भवान् 'साहेइ' इति देशीवचनमेतत् कथयति किमुक्तं भवति १-असत्ये येषु भवेषु यद्भवत् भविष्यति, यद्वा वस्तुजातं परः पृच्छेत् तत्सर्वं कथयति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिरावेदिता, किं बहुना ?, 'न च' नैव णमिति वाक्यालङ्कारे अनतिशेषी-अनतिशायी, अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एपः- गणधरश्छद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात् तस्य, एवं तावत् समवसरणवकव्यता सामान्येनोक्ता, सम्प्रति प्रकृतमभिधीयते, तत्र भगवतः समवसरणे निष्पन्ने सति अत्रान्तरे देवकृतजयजयशब्दसम्मिश्र दिव्यदुन्दुभिशब्दाकर्णनोत्फुलन बनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमभ्यागतजनानां परितोषोऽभवत् अहो स्विष्टं यद्विग्रहवन्तः खल्बागता देवा इति, तथा चाह For Private & Personal Use Only ~37~
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy