________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९२], विभा गाथा ], भाष्यं [१४९...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक" नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
द्रव्यगुणसमुदायात्मक इति द्रन्यगुणयोः सामायिकमिति द्रष्टव्यम् , अब नवैचिन्ता, बतः केचिन्नया द्रव्यं सामाविकमिति प्रतिपन्नाः, अपरे गुण इति, सकलनयानां च आधारभूती दौनयो, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र नैगमसहव्यवहारा द्रव्याधिकनयाः, उपरितना ऋजुसूत्रप्रभृतयश्चत्वारः पर्यायार्थिकनयाः, आदच चूर्णिकृत्-"आइतिग नयाणं
दबडिओ, उवरिल्ला पत्तारि पजवद्वितो" इति, तत्र द्रव्यार्थिकः पर्यायाधिको वा यत् सामायिकर्मिग्छति तदुपदर्शयन्नाह१ जीवो गुणपहिवन्नो नयस्स दवट्टियस्स सामइयं । सोचेव पज्जवद्वियनयस्स जीवस्स एस गुणो॥ ७९२॥ दी जीवः-आत्मा गुणैः-सम्यक्त्वादिभिः प्रतिपन्नः-आश्रितो गुणप्रतिपन्नः द्रव्यमेवार्थो यस्य न पर्यावाः स भ्यार्षिकः, *अथवा 'दयट्टिय' इति द्रव्यस्थित इति संस्कारः, द्रव्ये वस्तुतत्त्वबुध्या स्थितो न तु पर्याये इति द्रव्यस्थितः, यदिवा द्रव्या
स्तिक इति संस्कारः, तत्र अस्तीति मतिरस्येत्यास्तिकः, 'दैष्टिकास्तिकनास्तिका' इति निपातनादिकण इत्यास्तिको, नतु पर्याये इति द्रव्यास्तिकः, किमुक्तं भवति ।-द्रव्यमेव तात्त्विकमस्ति न पर्याया इति यः प्रतिपन्नःस द्रव्यास्तिक इति, तस्य द्रव्यार्थिकस्य द्रव्यस्थितस्य द्रव्यास्तिकस्य वा नयस्य मतेन सामायिकं, इयमत्र भावना-गुणाः खल्वौपचारिकत्वादसन्त एव, परमार्थतो द्रव्य व्यतिरेकेण तेषामनुपलम्भात्, अथ यदि रूपादयो न सन्ति कथं वर्हि लोकस्य द्रव्ये तत्प्रतिपत्तिः, चित्रे निम्नोन्नतभेदप्रतिपत्तिवत्, गुणप्रतिपन्न इत्यत्रापि गुणस्य विशेषणीभावेन जीवस्यैव तात्विकत्वं, यथा पावक इत्यत्र पुरुषस्य पचनक्रियायाः, ततोऽस्य द्रव्यार्थिकनयस्य न्यग्भूतगुणग्रामो जीव एवं सामायिकं, न पर्याय इति। पर्याया[धिकस्य पर्याय स्थितस्य पर्यायास्तिकस्य वा पुनर्नयस्य स एव सामायिकादिर्गुणः परमार्थतो, नतु जीवद्रव्यं, गुणातिरेकेण
RACTICCCAKACKAGAKA
दीप अनुक्रम
Fina Promethe
~279