________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
आ. सु. ७२
Jain Education Inte
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [ ७८६ - ७८७ ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०],
वि०भा० गाथा [-], भाष्यं [ १४८...], मूलं [- / गाथा-] मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| एवं शेषाणामपि परस्परं भावनीयं, गोष्ठामाहिलमधिकृत्य पुनरेकैकस्य त्रयो दोषाः तथाहि - बहुरतान् प्रति गोष्ठामाहिलोऽब्रवीत् कारणत्रयाद् भवन्तो मिथ्यादृष्टयः, तत्र - एकमिदं यत्कृतं कृतमिति ( यूयं) वदतेति, द्वितीयं स्पृष्टं बद्धं कर्म्म, तृतीयमपरिमाणं प्रत्याख्यानमिति, बहुरता अपि तं प्रत्यवोचन् भवानपि कारणत्रयान्मिथ्यादृष्टिः- एकं तावदिदं यत् क्रियमाणं कृतमिति वदति, द्वितीयं स्पृष्टमवद्धं कर्म्म, तृतीयं सपरिमाणं प्रत्याख्यानमिति, एवं सर्वान् प्रति योजनीयम्, अन्ये त्वाहु:- एकैकस्य द्वौ द्वौ दोषावेवं वेदितव्यौ, एकं तावत्स्वयं विप्रतिपन्ना द्वितीयं परानपि व्युग्राहयन्तीति ॥ | नन्वेता दृष्टयः संसाराय आहोस्विदपवर्गीयेत्याशङ्कानिवृत्त्यर्थमाह
सत्तेया दिट्ठीओ जाइजरामरणगग्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं ॥ ७८६ ॥ सष्ठाप्येता दृष्टयो, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीनामिति जातिग्रहणं नारकादिप्रकृतिग्रहे चरितार्थमिति गर्भवसतिग्रहणमदुष्टं, मूलं कारणं, भवतीति योगः, मा भूत्सकृद्भाविनीनां जातिजरामर णगर्भवसतीनां मूलमिति प्रत्ययस्तत आह- 'संसारस्स उ' इति संसरणं संसारः - तिर्यग्गरनार कामरभवानुभूतिरूपः प्रदीर्घः तस्यैव, सुशब्दस्यावधारणार्थत्वात्, केन रूपेणेत्याह-निर्मन्थरूपेण ॥ अथैते निन्हवाः किं साधव उत तीर्थान्तरीया आहोस्विन्मिथ्यादृष्टयः १, उच्यते, न साधवो, यतः साधूनामेकस्याप्यर्थाय यत्कृतमशनादि तच्छेषाणां न कल्पते, नैत्रं निन्दवानां, तथा चाह
पवपणनी आणं जं तेर्सि कारिअं जहिं जत्थ । भजं परिहरणाए मूले तह उत्तरगुणे अ ॥ ७८७ ॥
For Private & Personal Use Only
~ 269~
janelibrary.org