________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्तिः [ ७८२-७८३] वि०भा० गाथा [-] भाष्यं [ १४५], मूलं [- / गाथा-] रत्नसागरेण संकलित ..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
विशेषताप्रसङ्गप्रसक्तिरिति गृहिलिङ्गत्वाद्वखं परित्यक्तव्यं, किञ्च सर्वत्र श्रुते श्रमणा निर्ग्रन्थाः व्यावर्ण्यते, वस्त्रं च ग्रन्थस्ततस्तत्परिभोगे निर्मन्थत्वव्याघात इति श्रमणव्यपदेशस्याप्यभावप्रसङ्गः, उक्तं च- "जायणसंमुच्छणमो धुवणे पाणाण होइ वावती । दायारस्सवि पीडा संधणमाईसु पलिमंथो ॥ १ ॥ राढा मुच्छा य भयं अविहारो चैव भारवहणं च । तेनाहडाहिगरणं सोगो य पमायनद्वेऽवि || २ || सावेक्खयाए दाणादकज्जसिद्धी परीसहासहणं । गुरुपडिकुटुं गिहालिंग गंथमो वस्थदोसा उ ॥ ३ ॥" ( धर्मसंग्रहण्यां १०१७९) तत एतद्दोषदुष्टत्वान्न साधूनां वस्त्रग्रहणमुचितमिति, अत्र स्थविरा: प्राहु:-यदि याज्वादोषात् वस्त्रपरित्यागस्तत आहारोऽपि परित्यक्तव्यस्तस्यापि याव्यामन्तरेणासम्भवात्, 'सबै से जाइयं होइ, नत्थि किंचि अजाइय' मिति(उत्त० ७६ ) वचनात् आह च- "वत्थमिह जायणातो जइ मुचइ इंतमेव मोयवो । आहारोऽवि हु जइणा अजाइतो सो जं न होइ ॥ १ ॥” इति (धर्म. १०२५) अथ मन्येथा धर्म्मकायोपष्टम्भहेतुरयमाहार इति याज्चादोषेऽपि स प्रतिगृह्यते, गुरुलाघव पर्यालोचनपरं हि पारमेश्वरं प्रवचनमिति, यद्येवं तर्हि वस्त्रमपि धर्मकायपरिपालनात् महदुपकारि, तथाहि - महति हिमानीकणानुषके प्रपतति शीते यदि तृणग्रहणाग्निसेवनादि समाचरति । ततस्तेजःकायादिजंतुविनाशप्रसङ्गः, अन्याद्यनासेवने तु धर्म्मकायस्य विपत्तिः, सा चार्षे तथाविधदुष्टकारणमन्तरेण प्रतिषिद्धा, यद्यपि च न धर्म्मकायस्य विपत्तिस्तथापि धर्म्मध्यानं शीतपरिगतस्य नियमतोऽप्यपगच्छति, अथोत्तमसंहननोपेतस्य धर्म्मध्यानस्यापि नागमो, पुष्टावष्टम्भत्वात्, यद्येवं तत उत्तमसंहननवन्तं मुक्त्वा शेषाणां न प्रव्रज्योचिता, प्रागुकदोषप्रसङ्गात् अथ च मन्दसंहननानामपि भगवता तदनुग्रहाय प्रत्रज्याऽनुज्ञाता 'दुप्पसहन्तं चरण मित्यादिवचनात्
Jain Education International
For Private & Personal Use Only
~ 255 ~