________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
श्रीआव श्यक मल
य० वृत्ती 4 उपोद्घाते
॥३९९ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्ति: [ ७७७], वि० भा०गाथा [-] भाष्यं [१२४] मूलं [- /गाथा -] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
तयः परिणामाः, तत्र येऽपरिणामास्ते नयानां यः स्वः स्वः - आत्मीय आत्मीयो विषय ज्ञानमेव श्रेयः क्रिया वा श्रेयसीत्यादिकस्तम श्रद्दधानाः ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन क्रियादिकं वस्त्वभिहितं तदेव तन्मात्रं प्रमाणतया गृह्णन्तः तथा एकान्तवस्तुप्रतिपादकनयानां परस्परविरोधं च मन्वाना मा मिथ्यात्वं गच्छन्तु येऽप्युक्त स्वरूपाः परिणामास्ते यद्यपि न मिथ्यात्वमियति तथापि विस्तरेण नयैर्व्याख्यायमानैर्ये सूक्ष्माः सूक्ष्मतराञ्च तद्भेदास्तान् ग्रहीतुमशका भवेयुरित्यार्यरक्षितैः कालिके इत्युपलक्षणं उत्कालिके च नयविभागो - नयगत विस्तरव्याख्यारूपो न कृत इति ॥ यदुक्तम् 'अनुयोगस्ततः कृतश्चतुद्धेति तत्रानुयोगचातुर्विध्यमुपदर्शयति मूलभाष्यकृत्
कालियसु च इसि भासिआई तइओ अ सूरपन्नत्ती ।
सञ्चो अदिट्टिवाओ चउत्थओ होड़ अणुओगो ॥ १२४ ॥ ( म. भा. )
जं च महाकप्पसुअं जाणि अ सेसाणि छेअसुत्ताणि । चरण करणाणुओगन्ति कालिअत्थे उवगयाणि ॥ ७७७ ॥ कालिकश्रुतम् - एकादशाङ्गरूपं चरणकरणानुयोगरूपमिति गम्यते, तथा ऋषिभाषितानि - उत्तराध्ययनादीनि, धर्मकथानुयोग इति वाक्यशेषः, तृतीयोऽनुयोगः - कालानुयोगः, स च सूर्यप्रज्ञप्तिः, उपलक्षणमेतत् चन्द्रप्रज्ञत्यादिरपि तथा सर्वश्व दृष्टिवादश्चतुर्थो भवत्यनुयोगः, ऋषिभाषितानि धर्म्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वात् दृष्टिवादादुद्धृत्य तैस्तेषां प्रतिपादितत्वात् धर्म्मकथानुयोगत्वप्रसङ्ग इत्यत आह-यच्च महाकल्पश्रुतं यानि च दोषाणि छेदसूत्राणि - कल्पादीनि तानि सर्वाण्यपि चरणकरणानुयोग इति मन्तव्यानि । इयाणिं जहा देविंदवंदिया अज्जरक्खिया
*** अत्र क्रमेण आयात भाष्यक्रम १३८ वर्तते, परंतु मूल संपादकेन अत्र || १२४ || मुद्रितं, हारिभद्रिय वृतौ तु भाष्य-क्रम || १२४ || एव |
... अत्र चत्वारः अनुयोगानां व्याख्या क्रियते
~ 214~
अनुयोगनयविभा
गः
॥ ३९९॥
janetary.org