________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३
अध्ययनं [-], निर्युक्तिः [ ७६२ ],
वि०भा०गाथा [२२७६], भाष्यं [ १३७...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
***
तदसत्ते परिकम्मणमेगनएणंपि वा कुजा ॥ १ ॥ " (वि. २२७८) इत्यादि, उकं नयद्वारम् इदानीं समवतारद्वारं वक्तव्यं, तत्र व तेषां नयानामनवतारः क्व वा समवतार इति प्रतिपादनार्थमाह
मूढनइअं सुअं कालिअं तु न नया समोअरंति इहं । अपुहुत्ति समोआरो नत्थि पुहुत्ते समोआरो ॥१३२॥ मूढा अविभागस्था नया यस्मिन् तत् मूढनयं तदेव मूढनयिक, प्राकृतत्वात् स्वार्थे इकप्रत्ययः, अथवा मूढाश्च ते नयाश्च मूढनयास्ते अस्मिन् विद्यन्ते इति मूढनयिक, 'अतोऽनेकस्वरा' दितीकप्रत्ययः, किन्तदित्याह - श्रुतं, काले| प्रथमचरमपौरुषी लक्षणे कालग्रहणपूर्वकं पठ्यते इति कालिकं, 'वर्षाकालेभ्य' इति भावार्थे इकण्प्रत्ययः, तत्र न नयाः समवितरन्ति, न प्रतिपदं भण्यन्ते इति भावः कदा पुनरमीषां तर्हि समवतारोऽभूत् ? कदा च नावतार इत्याह- 'अपुहुत्ते समोयारों' इत्यादि, अपृथक्त्वं चरणकरणानुयोगगणितानुयोगधर्म्म कथानुयोगद्रव्यानुयोगानामेकभावः, किमुक्तं भवति?यदैते चत्वारोऽपि चरणकरणानुयोगप्रभृतयोऽनुयोगाः प्रतिसूत्रमुपन्यस्यन्ते एषोऽपृथग्भावः, तत्र नयानां समवतारो - विस्तरेण विरोधाविरोधसम्भव विशेषादिना प्ररूपणं, 'नस्थि पुहुत्ते समोयारो' इति पृथक्त्वं चरणकरणधर्म्मसङ्ख्याद्रव्यानुयोगानां ग्रंथप्रविभागेन वर्त्तनं, किमुक्कं भवति ? -यदैकैकस्यैवानुयोगस्य ग्रन्थविभागेन प्रवर्त्तनम् एतत् पृथक्त्वमिति, तस्मिन् नास्ति नयानां समवतारः, भवेद्वा पुरुषविशेषापेक्षः, इयमत्र भावना - यावदपृथक्त्वमासीत् तावन्नयानामभूत्
१ भाष्यकाराणां श्रीहरिभद्रसूरीणां चाभिप्रायेण नयविशारद एवाधुना श्रीन् नयान् ब्रूयात्, प्रकरणानुगतञ्च स एवार्थः, मूढनयिकत्वाभावप्रसङ्गोऽन्यथा तदापि सर्वेषां सम्पूर्ण नयावतारस्यैव योग्यवेति न नियमः
For Pevate & Personal Use Only
•••• अत्र मूल संपादने यत् गाथा-क्रम || १६२ || मुद्रितं तत् मुद्रण-स्खलना मात्र, इह गाथा -क्रम || ७६२ || एव वर्तते
अनुयोगानां चत्वारः भेदानां स्वरुपम् प्रदर्शयते
181~