SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७५८], विभागाथा [२२४१,२२४२], भाष्यं [१३७...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक |स्तिकायप्रदेशः स्याज्जीवप्रदेशः स्यात् स्कन्धप्रदेशः, एवमाचक्षाणमृजुसूत्र शब्दनयः प्रत्याचष्टे-यदसि-भाज्यः प्रदेश दाइत्यादि, तन भवति, कथम् ?, उच्यते-यदि भाज्यः प्रदेश इति संमतं ततः स्यात्पदलाञ्छने प्रतिनियतधर्मास्तिकाया-16 धनुगतप्रदेशस्वरूपावधारणासम्भवात् धर्मास्तिकायप्रदेशोऽपि स्यादधर्मास्ति कायप्रदेशः अधर्मास्तिकायप्रदेशोऽपि स्याद्धर्मास्तिकायप्रदेश इत्यादि, तत एवं वक्तव्यं-धर्मास्तिकायः प्रदेशः प्रदेशो धर्मास्तिकायः अधर्मास्तिकायः प्रदेशः दिप्रदेशोऽधर्मास्तिकाय इत्यादि, एवं हि पदतः शब्दनयस्यायमभिप्रायः-य एव धर्मास्तिकायादिरूपो देशी स एव देशः प्रदेशो वा, तस्य तदव्यतिरिक्तत्वात् , न खलु देशिनो भिन्नो देशः प्रदेशो वा भवितुमर्हति, भेदे सति तस्यासौ देशः। प्रदेशो वेति सम्वन्धानुपपचेः, नहि घटः पटस्येति सचेतसा वक्तुं शक्यं, सम्बन्धश्चेत्तर्हि सम्बन्धस्यान्यथानुपपद्यमानदत्वाद्देशः प्रदेशो वा देशिनः सकाशादभिन्नःप्रतिपत्तव्यः, तथा च सति य एव देशी स एव देशः प्रदेशश्चेति सिद्धं सामानाप्राधिकरण्य, एतदेव च सामानाधिकरण्यं समभिरूढोऽपिमन्यते, एवंभूतस्तु माह-न वस्तुनो देशः प्रदेशो वा, युक्त्ययोगात्, ४ तथाहि-देशः प्रदेशोवादेशिनो भिन्नो वाऽभिन्नोवा?, गत्यन्तराभावात् , यदि भेदस्तस्येति सम्बन्धानुपपत्तिः, अथाभेदस्ततो देशः प्रदेशोवा देश्येव, तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्, तथा च सति यो देशप्रदेशशब्दौ तौ परमार्थतो धर्मास्तिकायादि देशप्रतिपादको, ततो यथा पर्यायशब्दत्वादेककालमेकस्मिन् वस्तुनि घटकुटशब्दौ नोच्चार्येते, एकेनापि शब्देन तदर्थस्य हा प्रतिपादने द्वितीयशब्दप्रयोगस्य नैरर्थक्यात्, एवमिहापि धर्मास्तिकायादिरूपे वस्तुनि धर्मास्तिकायादिशब्दो देशप्रदेशादादिशब्दश्च नैककालं उच्चारणमर्हतः, द्वयोरप्येकार्थतायामेकेन तदर्थस्याभिधानतोऽपरशब्दप्रयोगस्य वैयर्थ्यात्, तथा च दीप अनुक्रम ECRACKSON JanEthicsonn inex Frica Feroleh R ainelibrary.org ~177
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy