________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७५८], विभागाथा [२२४१,२२४२], भाष्यं [१३७...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
संस्तारके वसनक्रियोपेतः स सर्वोऽप्येक एव, एकबुद्धिग्राह्यत्वात्, ऋजुसूत्रनयमतेन तु येष्वाकाशप्रदेशेष्वषगाढस्तेम्वेव वसति, न संस्तारके, संस्तारकानुगताकाशंप्रदेशानां तदणुभिरेव व्याप्तत्वात् , एवं ऋजुसूत्रेणोक्के त्रिविधोऽपि शब्दनय प्राह-ननु वसनं नाम वर्तनमुच्यते, तथा च देवदत्तो गृहे वसतीति, किमुक्कं भवति ?-देवदत्तो गृहे वर्त्तते, तच्च वर्तनं सर्वस्यापि बस्तुनः स्वस्वरूप एव, नान्यत्र, तथा प्रत्यक्षत उपलभ्यमानत्वात् , तथाहि यत् घटगतं स्वरूपं तत्
घट एव वर्तते, नान्यत्र भूतले पटादो वेति प्रसिद्धमेतत् तत् देवदत्तादिलक्षणं वस्तु स्वस्वरूपमपहाय कथमन्यत्र * विलक्षणस्वरूपे वस्तुनि आकाशलक्षणे वर्तितुमुत्सहते ?, तथा चात्र प्रयोगः-यद्वस्तुसत् तत्सर्वमात्मस्वरूपे वर्त्तते, यथा ४
चेतना जीवे, बस्तुसच देवदत्तादिकमिति तदपि स्वस्वरूप एव वर्चते, नान्यत्रेति, अथवाऽयं व्यतिरेकमुखेन प्रयोगःविवादास्पदीभूतो देवदत्तो नाकाशप्रदेशेववतिष्ठते, ततो विलक्षणत्वात् , यत् यतो विलक्षणं न तत्तत्र वर्तते, यथा छाया आतपे, विलक्षणाश्चाचेतनत्वेन देवदत्तादाकाशप्रदेशा इति नासौ (तत्र) वचते, उक्तं च-"आगासे वसइत्तिय भणिए भण्णइ किहानमन्नंमि । मोचूणायसभावं वसिज्ज वत्थु विहम्मंमि? ॥ १॥ वत्थु वसइ सहावे सत्ताओ चेयणा व जी
वमि । न विलक्षणतणाओ भिन्ने छायाऽऽतचे चेव ॥२॥" (वि. २२४१-२) एष वसतिदृष्टान्तः। * सम्प्रति प्रदेशहटान्तभावना, तत्र प्रकृष्टो देशः प्रदेश: स एव दृष्टान्तः प्रदेशदृष्टान्तः, स चायम्-गमो बदति
पपणा जगति प्रदेशाः, तद्यथा-धर्मास्तिकायप्रदेशोऽधर्मास्तिकायप्रदेश आकाशास्तिकायप्रदेशो जीवप्रदेशः स्कन्धप्रदेशः स्कन्धगतैकदेशप्रदेशश्च, सर्वत्र च षष्ठीतत्पुरुषः समासः, यथा धर्मास्तिकायस्य प्रदेशो धोस्तिकायप्रदेशः, एवं
SECREKANGACAKACASACRECR
दीप अनुक्रम
~175