SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आ.सु. ६५ “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [-], निर्युक्तिः [७५८], वि० भा० गाथा [ २२५६ ], भाष्यं [ ९३७...], मूलं [- / गाथामुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः न प्रमाणं, किन्तु यदेव प्रस्थकादिज्ञानं तदेव प्रमाणं तेनैवाधिकृतवस्तुपरिच्छेदात् तथा चात्र प्रयोगः-प्रत्थकज्ञानं प्रमाणं वस्तुपरिच्छेदकत्वात्, यद् यद्वस्तुपरिच्छेदकं तत्तत् प्रमाणं यथा केवलज्ञानं वस्तुपरिच्छेदकं च प्रस्थकज्ञानमिति, उक्तञ्च - " नाणं पमाणमिद्धं नाणसहावो स जीवतो णनो । किह पत्थयाइभावं वएज मुत्ताइरूवं सो ? ॥ १ ॥ न हि पत्थाइ पमाणं घडोव भुवि चेयणाए विरहातो । केवलमिव तन्नाणं पमाणमिठ्ठे परिच्छेया ॥२॥ अथ मन्येत - काष्ठघटितप्रस्था. दयोऽपि यथोक्तपरिच्छेदहेतुत्वात् प्रमाणमिति व्यवहियन्ते, तदयुक्तं, परिच्छेदहेतुत्वायोगात्, तद्धि तस्य हेतुरिति वक्तुं शक्यं यद्भावेऽवश्यं भवति यदभावे च यन्न भवति, अथवा प्रतिनियत कार्यकारणव्यवस्थानुपपत्तेः न च काष्ठघटितप्रस्थकादिभावेऽवश्यं परिच्छेदबुद्धिभावः, नालिकेरद्वीपायातस्य प्रस्थकादिदर्शनेऽपि तद्बुद्ध्यसम्भवात् नापि प्रस्थकाद्यभावे तदुद्ध्यभावः कस्यापि कलनशक्तिसम्पन्नस्यातिशयज्ञानिनो वा प्रस्थकाद्यभावेऽपि धान्यराशेरवलोकनमात्रेण प्रस्थकपरिमाणोऽयं राशिः कुडवपरिमाणो वेत्यादिबुद्धिदर्शनात्, ततोऽन्वयव्यतिरेकासम्भवान्न काष्ठघटितः प्रस्थकादिः परिच्छेदहेतुः, यद्यपि च कथथित् क्षयोपशमहेतुतया कदाचनापि निमित्तमात्रं भवति तथापि नैतावता तत्कारणत्वव्यपदेशः, अतिप्रसङ्गात् किञ्च परिच्छेदकारणं, तथापि यदि तत्कारणतया ( कथंचित् प्रस्थादि ) (तत्) प्रमाणमिति व्यपदेशभाजनं ततः प्रमेयमपि प्रमाणं प्राप्नोति, तस्यापि प्रमाणरूपज्ञानकारणत्वात्, तथा यानि निमित्तकारणानि आकाशकालदिगादीनि यानि च दषिभक्षणादीनि परम्परकारणानि तानि सर्वाण्यपि प्रमाणानि प्रामुवन्ति, तत्कारणत्वाविशेषात् ततः सर्व प्रमाणं प्रसक्तमिति किमिदानीं प्रमाणं किमप्रमाणमिति प्रमाणाप्रमाणव्यवस्थाविठोपप्रसङ्गः, उक्तं च--" पत्थादओऽचि For Private & Personal Use Only 173
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy