________________
आगम (४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
“आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३
अध्ययनं [-], निर्युक्तिः [७५७], वि० भा० गाथा [ २२३७ ], भाष्यं [ ९३७...], मूलं [- / गाथादीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
कुः पृथिवी तस्यां स्थितस्य संभनात् - पूरणात् कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत् कुम्भशब्दवाच्यम्, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तराभिधेयं वस्तु द्रव्यं पयांयो वा तदन्यशब्दवाच्यवस्तुशब्दरूपतां सङ्क्रामति, न खलु पटशब्दवाच्योऽथ जातुचिदपि घटशब्दवाच्यवस्तुरूपतामास्कन्दति, तथाऽनुपलम्भात्, आस्कन्दने वा वस्तुसाङ्कर्यापत्तिः, तथा च सति सकललोकप्रसिद्ध प्रतिनियत विषयप्रवृत्तिनिवृत्त्यादि व्यवहारोच्छेदप्रसङ्गः, उत्कं च - "दवं पज्जाओ वा वत्युं वयणंतराभिधेयं जं । न य तं तदन्नभावं संकमए संकरो मा भू ॥ १ ॥ " ( २२३७ ) ततो | घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपताऽनास्कन्दनात् न कुटादयः शब्दा घटाद्यर्थवाचका इति विभि नार्थाः पर्यायशब्दाः प्रमाणयति च--इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते भिन्नार्थाः, यथा घटपटशकटादिशब्दाः, भिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारितप्रतीति लादेकार्थाभिधायकत्वं पर्यायशब्दानामभिधीयते तदसमीचीनमतिप्रसङ्गात्, तथाहि - यदि युक्तिरिक्ताऽपि प्रतीतिः शरणीक्रियते तहिं मन्दमन्दप्रकाशदवीयसि देशे सन्निविष्टमूर्त्तयो विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारत्वमाविभ्राणाः प्रतीतिपथमनुयन्तीत्येकतयैव तेऽभ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपग्राहितत्प्रत्यनीकप्रत्ययोपनिपातवाधितत्वेन पूर्वप्रतीतेविंवितानामेव तेषामभ्युपगमात्, एवमत्रापि भावनीयम्, अन्यच्च - शब्दनय ! यदि त्वया परस्परमर्थतो भिन्नत्वाल्लिङ्गवचनभिज्ञानां शब्दानां भिन्नार्थता व्यवहियते ततः पर्यायशब्दानामपि किं न भिन्नार्थताव्यवहारः क्रियते ?, तेषामपि परस्परमर्थतो भित्वात्, माह च भाष्यकृत् -" घणिभेयातो भेओऽणुमओ जद्द लिंगवयणभिन्नाणं । धडपडवञ्चापि
For Private & Personal Use Only
169~