SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [-], निर्युक्तिः [७५४] वि० भा० गाथा [ २१६० ], भाष्यं [ १३७... ]. मूलं [- / गाथा-] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः सर्वत्र स्थात्पदप्रयोगानुसरणं तर्हि मूलत एवापागमदवधारणविधिः परस्परं विरोधात्, तथाहि -अवधारणमन्यनिषेधपरं स्याद्वादस्वन्यसंग्रहणशील इति, तदयुक्तं, सम्यक् तत्त्वापरिज्ञानात् स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुवाविधर्मान्तरसङ्ग्रहणशीलः, अबधारणविधिस्तु तत्तदाशङ्कितान्ययोगव्यवच्छेदादिफलः, तथाहि-ज्ञानदर्शनवीर्यसुखोपेतः किं जीवो भवति किं वा नेत्याशङ्कायां प्रयुज्यते - स्थाजीव एव, अत्र जीवशब्देन प्राणधारणनिबन्धनं जीवशब्दवाच्यत्वमभिधीयते, एवकारेण यदाशङ्कितं परेण जीवशब्दवाच्यत्वं तस्य निषेधः स्यात्पदप्रयोगातु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्चत्वासङ्ख्यात प्रदेश सूक्ष्मत्वलक्षणा धर्मा धर्म्माधर्म्मगगनास्तिकायपुद्गलैः साधारणाः येऽपि च सत्त्वप्रमेयत्वधर्मित्वगुणित्वादयः सर्वपदार्थैः साधारणास्ते सर्वेऽपि प्रतीयन्ते यदा तु ज्ञानदर्शनादिलक्षणो जीवः किंवाऽन्यलक्षण इत्याशङ्का तदैवमवधारणविधिः स्यात् ज्ञानादिलक्षण एव जीवः, अत्र जीवशब्देन जीवशब्दवाच्यतामात्रं प्रतीयते, ज्ञानादिलक्षण एवेत्यन्यलक्षणव्युदासः, स्यात्पदप्रयोगात्तु साधारणासाधारणधर्म्मपरिग्रहः, यदा तु जगति जीवोऽस्ति किं वा नेत्यसम्भवाशङ्का तदैवमवधारणं - स्यादस्त्येव जीवः, अत्रापि जीवशब्देन जीवशब्दवाच्यताऽधिगतिः, स्यात्पदप्रयोगात् साधारणासाधारणधर्म्मपरिग्रहः अस्त्येवेत्यवधारणादभावाशङ्काव्यवच्छेदः एवमन्यत्रापि साक्षात् गम्यमानतया वा स्यात्पदप्रयोगपुरःसरं यथायोगमवधारणविधिः सम्यक्प्रवचनार्थं जानानेन प्रयोक्तव्यः, अवधारणाभावे तु जीवादिवस्तुतत्त्वव्यवस्थाविलोपप्रसङ्गः, तथाहि - यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते तर्हि अजीवोऽपि तलक्षणः स्यादिति जीवाजीवव्यवस्थाविलोपः, तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्ययोगव्यवच्छेदो नाभ्युपगम्येत ततोऽन्यत्किम For Private & Personal Use Only ~155~
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy