________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
H
आ.सु. ६०
Jain Education 1
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्तिः [७२० ७२२], वि० भा० गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-] रत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उवसंपन्न जं कारणं तु तं कारणं अपूरंतो अहवा समाणिअम्मि सारणया वा विसग्गो वा ॥ ७२० ॥ यत्कारणं- यन्निमित्तमुपसम्पन्नः, तुशब्दादन्यत्सामाचार्यन्तर्गतं किमपि गृह्यते, तत्कारणं-वैयावृत्त्यादि अपूरयन्-अकुर्वन्, यदा वर्त्तते इत्यध्याहारः, तदा किमित्याह-'सारणया वा विसग्गो वा' इति तदा तस्य सारणा-चोदना क्रियते, अविनीतस्य पुनर्विसर्गे वा परित्यागः क्रियते, तथा न अनापूरयन्नेव यदा वर्त्तते तदा सारणा वा विसर्गो वा, किन्तु 'अहवा समाजियम्मि' न्ति अथवा समाप्तिं नीते- परिसमाप्तिं नीतेऽभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा- परिसमाप्तं, तद्यदि ऊर्ध्वमपि इच्छति ततो भव्यं, अथ नेच्छति गच्छति तस्य वा न साम्मत्यं ततो विसर्गो वेति, उक्ता संयतोपसम्पत् । सम्प्रति गृहस्थोपसम्पदुच्यते, तत्रेयं साधूनां सामाचारी - सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आहइत्तिरिपि न कप्पड़ अधिदिनं खलु परुग्गहाईसु । चित्ति निसीहत्तुं तइ अइयरक्खणट्टाए || ७२१ ॥ इत्वरमपि स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावग्रहानेकभेदप्रख्यापकः, किं न कल्पते इत्याह-स्थातुं - कार्योत्सर्गे कर्त्तु, निपेत्तुम् उपवेष्टुं किमित्यत आह-'तइयवयरक्खणड्डाए' अदत्तादान विरत्याख्यतृतीयत्रतरक्षणार्थे, तस्मात् भिक्षाटनादावपि व्याघातसम्भवे क्वचित्स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां यस्याः सोऽवग्रह इति ॥ उका दशविधा सामाचारी | साम्प्रतमुपसंहरन्नाह
एवं सामाघारी कहि दसहा समासओ एसा । संजमतबडगाणं निग्गंधाणं महरिसीणं ॥ ७२२ ॥
For Pevate & Personal Use Only
125
inbrary.org