________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७१८-७१९], विभा गाथा -], भाष्यं [१३७...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
आवश्यके श्रीमलय- समवसरणे
चारित्रोफ संपत्
प्रत
far
सत्राक
4G
॥ ३५४॥
आगन्तुकः, भय वास्तव्याः खस्वित्व आगन्तुकस्तु यावत्कथिकस्ततो वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीवरौ तत्राप्येक उपाध्यायादिभ्यो दीयते, अन्यस्तु कार्यते, शेषं पूर्ववत् , अन्यतमो वाऽवधि- कालं यावत् ध्रियते इत्येवं यथाविधि विभाषा कार्या, उपाध्यायादिभ्य इत्यत्रादिशब्दात् स्थविरग्लानशेक्षकादिपरिग्रहः। उक्का वैयावृत्त्योपसम्पत्, सम्पति क्षपणोपसम्पत् प्रतिपाद्यते-'अविगिढे'त्यादि, कश्चित् क्षपणार्थमुपसम्पद्यते, सक्षपको द्विविधः-इत्वरो यावत्कथिकश्च, यावत्कधिक उत्तरकाले अनशनकर्ता, इत्वरस्तु द्विधा-विकृष्टक्षपकः अविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपका, चतुर्थपष्टक्षपकस्त्वविकृष्टक्षपकः, तत्रायं विधि:-अविकृष्टक्षपकः खल्वाचार्येण पृच्छयते-हे आयुष्मन् ! पारणके त्वं कीहशो भवसि ?, यद्यसावाह-लानोपमः, ततोऽसावभिधातव्यः-अलं तव क्षपणेन, स्वाध्यायवैयावृत्त्यकरणे यन्तं कुरु, इतरोऽपि पृष्टः सन् एवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते-विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपि इष्यत एव, यस्तु मासादिक्षपको यावत्कथिको वा स इष्यते एव, तत्राप्याचार्येण गच्छः प्रष्टव्यो, यथाऽयं क्षपक उपसम्पद्यते इति, अनापृच्छय गच्छं संयच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अपि उपधिपत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा अवते यथाऽस्माकमेकः चपकोऽस्त्येव, तस्य क्षपणपरिसमाधावस्य करिष्यामः, ततोऽसौ प्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुवर्तते, ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्स उद्धर्चनादि कार्य, यदा पुनः प्रमादवोजाभोगतो वा न कुर्वन्ति शिष्यास्ता आचार्येण चोदनीयाः, इत्यलं प्रसलेन ॥ सम्प्रति चारित्रोपसम्पद्विषिविशेषप्रतिपादनार्थमाह
दीप अनुक्रम
%*
%
॥५४॥
*
*
JanEnimoon
i
n
Triainalibrary.org
~124