________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
आवश्यके श्रीमलयसमवसरणे
॥ ३४२ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [ - ], निर्युक्तिः [ ६६९-६७०], वि० भा० गाथा [-], भाष्यं [ १३२...] मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
'से' तस्य कर्त्तुकामस्य कस्यचित्साधोः कारणजातं कुर्यात् तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः प्रयोक्तव्यः, इह विरलाः केचिदनभ्यर्थिता एव परकार्यकर्त्तार इति कोऽपीति ग्रहणं, अथ कस्मादिच्छाकारप्रयोगः क्रियते ?, उच्यते, बढाभियोगो न कल्पते इति सूचनार्थः, उक्तं यतो-न कल्पते वलाभियोगः साधूनां तत इच्छाकारप्रयोगः कर्त्तव्यः, तुशब्दः क्वचित् बलाभियोगोऽपि कल्पते इति सूचनार्थः ॥ उक्तगाथावयवार्थप्रतिपादनार्थमाहअन्वयम्मि नजर अब्भत्थेर्ड न वहइ परो उ (ओ)। अणिगूहि अबलविरिएण साहुणा ताव होअवं ।। ६६९ ।। यदि अभ्यर्थयेत् परमित्येतस्मिन् यदिशब्दप्रदर्शितेऽभ्युपगमे सति ज्ञायते किमित्याह- अभ्यर्धयितुं न वर्त्तते- न युज्यते परः किमित्यत आह-न निगूहते बलवीर्यं यस्तेन, वलं शारीरं वीर्यम् - आन्तरः शक्तिविशेषः, तावच्छन्दः प्रस्तुताप्रदर्शक एव, अनिगूहितबलवीर्येण तावत्साधुना भवितव्यं, पाठान्तरं वा “अणिगूहियवलविरिएण जेण साहूण होय" अस्यायमर्थः -- येन कारणेन अनिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः ततोऽभ्यर्थयितुं न युज्यते पर इति ॥ आह-इत्थं तर्ह्यभ्यर्धनाविषयेच्छाकारोपन्यासोऽनर्थकः, उच्यते
जइ हुज्ज तस्स अनलो कल्लस्स वियाणइ न वा वाणं । गेलन्नाइहिवि हुज्या वावडो करणेहिं सो ॥ ६७० ॥ यदि भवेत्तस्य --- प्रस्तुतस्य कार्यस्यानल :- असमर्थः, यदिवा न विजानाति तत्कार्यं कर्त्तुं वाणमिति निपातः पूरणार्थः, ग्लानादिभिर्वा भवेत् व्यापृतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोति ॥ तथाचाह
For Private & Personal Use Only
100~
सामाचा
र्युपक्रमः
॥ ३४२ ॥