________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jan Education International
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२
अध्ययनं [-], निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
ऽर्थवद्विशेषणम्, अन्ये तु व्याचक्षते - इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च दत्तरुणमिति लोके प्रसिद्धं, दया तरुणमिदमश्वत्थपत्रमिति, ततः स कर्म्मकरदार कस्तरुण इति किमुक्तं भवति । - अभिनयो विशिष्टवर्णादिगुणोपेतश्चेति, तथा युर्ग- सुषम दुष्वमादिः कालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, कालोपद्रवरहित इत्यर्थः, बलं - सामर्थ्यं तद् यस्यास्ति स बलवान्, 'अप्पायंके' इत्यादि, अल्पशब्दोऽभाववाची अल्पः -- सर्वथा अविद्यमानः आतङ्को – ज्वरादिर्यस्य सोऽस्पातङ्कः स्थिरं दृढं प्रथममित्यर्थः संहननं यस्य स स्थिरसंहननः, तथा स्थिरौ-अग्रहस्तौ यस्य स स्थिराग्रहस्तःप्रतिपूर्णपाणिपादः, इतरस्य सम्यकूकर्मकरत्वायोगात्, 'पिट्ठतरोरुसंघायपरिणय' पृष्ठं अन्तरे च पार्श्वरूपे ऊरू सङ्घातेन संहतत्वेन परिणती यस्य स पृष्ठान्तरोरुसङ्घातपरिणतः, दृढपृष्ठान्तरोरुरितिभावः, तथा घनम् -- अतिशयेन निचितौ - निविडतरचयमापन्नौ वृत्तौ वलिताविव वलितौ स्कन्धौ यस्य स निचितघनवृत्तवलितस्कन्धः, तथा लसुने - अतिदीर्घस्यात्युच्च स्यापि चातिक्रमणे वल्गने प्रतीते जबने — वेगे व्यायामे च समर्थो लङ्घनवल्गनजवनव्यायामसमर्थः, तथा उरसि भवमुरस्यं तच तद्वलं च उरस्यबलं तत्समन्वागतः - प्राप्त उरस्यवल समन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः, तथा तली- तालवृक्षौ तयोर्य मलयुगलं समश्रेणिकं युगलं तेन परिघेण च अतिसरलतया पीवरतया च | निमौ- सदृशौ बाहू यस्य स तलयमलपरिघनिभवाहुः, छेको- द्वासप्ततिकलापण्डितः दक्षः-कार्याणामविलम्बितकारी कुशलः सम्यकूक्रियापरिज्ञानवान् मेघावी - परस्पराव्याहतपूर्वापरानुसन्धानदक्षः अत एव निपुणं यथा भवति, एवं शिल्प - क्रियासु कौशलमुपगतः प्राचो निपुणशिल्पोपगतः, 'दंडपुच्छर्ण'ति दंडपुच्छणकं शढाकाहस्तकं सरत्पर्णादि
Far Peyote & Personal Use Ony
~59~