________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२
अध्ययनं [-], निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
Jan Education International
सुमनसस्तेषां भावस्सौमनस्यं परमं च तत् सौमनस्यं च परमसौमनस्यं तत्सञ्जातं यासां ताः परमसोमनस्थिताः, एतदेव व्यक्ती करोति- 'हरिसव सविसप्पमाणहियया' हर्षवशेन विसद् - विस्तारयायि हृदयं यासां ता हर्षवशविसहृदयाः, | हर्षवशादेव च विकसिते वरकमलवन्नयने यासां ता विकसितवरकम उनयनाः, हर्षवाच्छरीरोद्धर्षे 'पयलियवर कडगतुडि| यकेयूरमउडकुंडले 'ति प्रचलितानि वराणि कटकानि-कलाचिकाभरणानि त्रुटितानि - वाहुरक्षिकाः केयूराणि-वाह्नाभरणविशेषरूपाणि मुकुटाः- शिरोभूषणानि कुण्डलानि - कर्णाभरणानि यासां ताः प्रचलितवर कटक त्रुटितकेयूरमुकुटकुण्डलाः, तथा हारेण विराजमानमत एव रतिदं वक्षो यासां ता द्वारविराजमानरतिदवक्षसः, ततः पूर्वपदेन विशेषणसमासः, तथा | प्रलम्बते इति प्रलम्बः- आभरणविशेषः तं प्रलम्बमानं घोलन्ति भूषणानि च घरन्तीति प्रलम्बमानप्रलम्बघोलद्भूषणधराः, प्रलम्बमानपदस्य विशेष्यात् परनिपातः प्राकृतत्वाद्, हर्षवशादेव 'ससम्भ्रमं' सम्भ्रमः इह विवक्षितक्रियायामादर बहुमानपूर्विका प्रवृत्तिः सह सम्भ्रमो यस्याभ्युत्थानस्य तत्ससम्भ्रमं क्रियाविशेषणमेतत् त्वरितं शीघ्रं चपलं-सम्भ्रमवशादेव यथा व्याकुलं भवति, एवं च सिंहासनादभ्युत्तिष्ठन्ति, 'अञ्जलियम उलियहत्था' इति अञ्जल्या -अञ्जलिरूपतया मुकु|लितौ हस्तौ यासां तास्तथा, 'एवं जहा सके' इति एवं यथा शक्रे वक्ष्यमाणं तथाऽत्र वेदितव्यम्, 'अणेगखंभसय संनिविट्ठ’| मिति अनेकेषु स्तम्भशतेषु निविष्टमने कस्तम्भ शतनिविष्टं 'लीलट्ठियसालभंजियाग' मिति लीलया स्थिताः लीलास्थिताः शालभञ्जिकाः पुत्तलिका यत्र तत्तथा, 'ईहामिये' त्यादि ईहामृगा - वृका व्यालाः- श्वापदभुजगा ईहामृगऋषभतुरगनरम करविहगव्यालकि शररुरुसर भचमरकुंजरवनलतापझलतानां भक्त्या विच्छित्त्या चित्रम् - आलेखो यत्र तत्तथा, तथा स्तम्भोग
For Peace & Personal Use Ony
~55~
www.sanlibrary.on