________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
[-]
उपोद्घातनिर्युक्तिः
॥ १६१ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-२
अध्ययनं [-], निर्युक्तिः [ १७४-१७८ ], वि० भा० गाथा [-] भाष्यं [३] मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
गा. १७६१७८
गुणाः, एतेषु निरतिचारः सन् तीर्थकरनामकर्म बनातीति क्रियायोगः १२-१३ एतावता पश्च कारणान्युक्तानि तथा विंशतिः क्षणलवे १४ तपसि १५ त्यागे १६ वैयावृत्त्ये १७ च समाधिस्तीर्थकरनामकर्मबन्धकारणं, तत्र क्षणलवग्रहणमशेषकाल- ४ स्थानकानि विशेषोपलक्षणं, क्षणलवादिषु कालविशेषेषु निरन्तरं संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षणलवसमाधिः, तथा तपसि बाह्याभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिः तपः समाधिः, त्यागो द्विधा द्रव्यत्यागो भावत्यागश्च, द्रव्यत्यागो नाम आहारोपधिशय्यादीनामप्रायोग्याणां परित्यागः, प्रायोग्याणां यतिजनेभ्यो दानं, भावत्यागः क्रोधादीनां | विवेको ज्ञानादीनां यतिजनेभ्यो वितरणं, एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः, वैयावृत्त्यं दशविधं तद्यथा-- आचार्यवैयावृत्त्यं १ उपाध्यायवैयावृत्त्यं २ स्थविरवैयावृत्त्यं ३ तपस्विवैयावृत्त्यं ४ ग्लानवैयावृत्त्यं ५ शैक्षकवैयावृत्त्यं ६ साधर्मिकवैयावृत्त्यं ७ कुलवैयावृत्त्यं ८ गणवैयावृत्त्यं ९ सङ्घवैयावृत्त्यं चेति १०, एकैकं त्रयोदशविधं तद्यथा— भक्तदानं १ पानदानं २ आसनप्रदानं ३ उपकरणप्रत्युपेक्षा ४ पादप्रमार्जनं ५ वस्त्रदानं ६ भैषजदानं ७ अध्वनि साहाय्यं ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतौ प्रविशतां दण्डकग्रहणं १० कायिकामात्र कसमदर्पणं ११ संज्ञामात्रक समर्पणं १२ श्लेष्ममात्रक समर्पण १३ मिति एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्तिर्वैयावृत्त्य समाधिः । तृतीयगाथान्याख्या- 'अप्पुचे' त्यादि, अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वग्रहणं १८ अष्टादशं तीर्थ- ४ ॥ १६१ ॥ करनामकर्मबन्धकारणम्, एकोनविंशतितमं श्रुतभक्तिः - श्रुतविषयं बहुमानं १९ विंशतितमें प्रवचनप्रभावना, सा च यथाशक्ति प्रवचनाथपदेशदानादिरूपा २० । एभिरनन्तरोकैः कारणैस्तीर्थकरत्वं लभते जीवः ॥
For Peace & Personal Use Ony
~46~
wanlibrary.org