________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jan Education
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२
अध्ययनं [-] निर्युक्तिः [ १४५-१४८], वि० भा० गाथा [-] भाष्यं [१-२], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
ऊण देवलोगा इह चैव य भारहंमि वासंमि । इक्खागकुले जातो उसमसुयसुतो मरीइति ॥ १४५ ॥ ततो देवलोकात् स्वायुःक्षये च्युत्वा इहैव भारतवर्षे इक्ष्वाकुकुले जातः - उत्पन्न ऋषभसुतसुतो मरीचिः, ऋषभपौत्र इत्यर्थः ॥ यतश्चैवमतः-
इक्खाकुले जातो इक्खागुकुलस्स होइ उप्पत्ती । कुलगरवंसे तीए भरहस्स सुओ मरीइति ॥ १४६ ॥
इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन् जातः- उत्पन्नो भरतस्य सुतो, मरीचिरिति योगः, तत्र सामान्येन ऋषभपौत्रत्वाभिधाने सतीदं विशेषाभिधानमदुष्टमेव, सामान्याभिधाने सति सर्वत्रापि विशेषाभिधानस्य दर्शनात् स च इक्ष्वाकुकुले | जातः कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः प्रवाहस्तस्मिन्नतिक्रान्ते यतश्चैवमत ईक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति शेषः, तत्र कुलकरवंशेऽतीते इत्युक्तमतः प्रथमं कुलकराणामेवोत्पत्तिं प्रतिपिपादयिषुर्यस्मिन् काले क्षेत्रे च तत्प्रभवस्तदुपदर्शनार्थमिदमाह -
ओसपिणी इमीसे तयाऍ समाऍ पच्छिमे भागे । पलितोवमद्वभागे सेसंमि य कुलगरुप्पत्ती ॥ १४७॥ ॥ अद्धमरहम ज्झिल्लुतिभागे गंगसिंधुमज्झमि । एत्थ बहुमज्झदेसे उत्पन्ना कुलगरा सत्त ॥ १४८ ॥ अस्यामवसर्पिण्यां वर्त्तमानायां या तृतीया समा- सुषमदुष्पमाभिधाना तस्या यः पश्चिमो भागः तस्मिन् कियन्मात्रे इत्याह- पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिः, अभूदिति वाक्यशेषः, कुत्रेत्यत आह- अर्द्धभरतमध्यत्रिभागे, किंविशिष्टे इत्याह-- गड़ासिन्धुमध्येऽत्र, एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्यदेशे, न तु पर्यन्तेषु,
For Peace & Personal Use Ony
~29~
janelibrary.org