SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ४५९ ४६० ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], वि०भा० गाथा [-] भाष्यं [८९-९१], मूल [- / गाथा-] मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः मणाभिषेकसामग्री कारितवान् तत्राष्टाधिकं सहस्रं सौवर्णिककलशानां १ अष्टसहस्रं रूप्यमयानां २ अहसहस्रं मणिमयानां ३ अष्टसहस्रं सुवर्णरूप्यमयानां ४ अष्टसहस्रं सुवर्णमणिमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं | सुवर्णरूप्यमणिमयानां ७ अष्टसहस्रं भौमेयानां : निष्पन्नं । तदनन्तरमासनं शक्रस्य चलितं, ततो यथा प्राक् ऋषभदेवजन्माभिषेकद्वारे शक्रा गमनमुपवर्णितं तथैवात्राप्यन्यूनातिरिकमुपवर्णयितव्यं यावतेन दिव्येन यानविमानेन स्वामि* भवनस्य त्रिकृत्वः प्रदक्षिणां कृत्वा भगवतो भवनस्य उत्तरपूर्वस्यां दिशि चतुरङ्गुलैर्धरणित लमसंप्राप्तं तत् दिव्यं यातविमानं स्थापयति, ततो दिव्ययानविमानाद्विनिर्गत्य सर्वसामग्रीपरिकलितो भगवन्तं पर्युपासीन आस्ते, एवं पूर्वक्रमेण ईशानेन्द्रादयो ऽच्युतेन्द्रपर्यवसाना इन्द्राः सपरिवारा वक्तव्याः, तथा भवनपतिव्यन्तरज्योति केन्द्रा अपि सपरिच्छदाः, ततो यथा प्राग् ऋषभस्वामिनो जन्माभिषेकमध्युतेन्द्रादयः कृतवन्त उक्तास्तथाऽत्रापि वक्तव्या पावत् शक्रेण कृतोऽभिषेकः, ततो येऽच्युतेन्द्राद्याभियोग्यदेवकृताः सौवर्णादिकलशास्ते नन्दिवर्द्धनकौटुम्बिक पुरुषनिर्बर्त्तितसौवर्णादिकलशेषु दिव्यानुभावतः प्रविष्टाः, ततस्ते अधिकतरं शोभितवन्तः, ततः स नन्दिवर्द्धनो राजा स्वामिनं सिंहासने पूर्वाभिमुखं निवेश्य देवानीतक्षीरोदसमुद्रादिपानीयैः सर्वतीर्थमृत्तिकाभिः सर्वकषायैः सौवर्णादिकल शैरभिषेकं कर्तुमारब्धवान् तस्मिंश्चाभिषेकं | कुर्वति सर्वे इन्द्राः सपरिवाराः केचित् कृताञ्जलिपुटाः केचित्कल शहस्तगताः केचित् भृङ्गार हस्तगताः केचिदादर्शहस्तगता जयजयशब्दं प्रयुञ्जानाः स्वामिनः पुरतोऽवतिष्ठन्ते, शेषं सर्वे हिरण्यवर्षादि ऋषभनाथजन्माभिषेकवद्वाच्यं ततो जन्मा|भिषेकाचन्तरमखङ्कारसभायां केशालङ्कारेण वखालङ्कारेण माझ्यालङ्कारेण आभरणालङ्कारेण भगवन्तमलङ्कारितवान्, | For Peace & Personal Use Only Jan Educaton Ironl ~ 247~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy