________________
आगम
(४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [९८७-१८९], विभा गाथा ], भाष्यं [३...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्रांक
पुरुषस्य भगिनी-सहजाता ऋषभस्य पक्षी भविष्यतीति सारवणा-तस्याः सङ्गोपना, इदं च पाठान्तरं किल भगवतो नन्दायाश्च तुल्यवयस्त्वख्यापनाफलं, तथा चानन्तरमेव वक्ष्यति-'नंदाएँ सुमंगला सहितो' अन्ये तुप्रतिपादयन्ति-सवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं तैः पठ्यते-'जम्मणे य विवड्डी य जाईसरणे इय' इति ॥ सम्प्रति वृद्धिद्वारमधिकृत्याहअह वडइ सो भयवं दियलोगचुतो य अणुवमसिरीओ । देवगणसंपरिबुडो नंदाएँ सुमंगलासहितो॥१८७ ॥
असियसिरतो सुनयणो थियोट्ठो धवलदंतपंतीओ। वरपउमगब्भगोरो फुल्लुप्पलगंधनीसासो॥१८॥ । देवलोकात्-सर्वार्थसिद्धिविमानरूपकात् च्युतः सन् अथ-जन्मानन्तरं वर्द्धते स ऋषभनाथो भगवान् , किंविशिष्टः |सन्नित्याह-अनुपमश्रीका-निरुपमदेहकान्तिकलितः, 'देवगणसंपरिवृतः' सेवागतनानाविधदेवपरिवारोपेतो नन्दया सुमङ्गलया च सहितः सन् , ते अपि वर्द्धते इति भावः, तथा असिताः-कृष्णाः शिरोजा:-केशा यस्यासौ असितशिरोजा, शोभने नयने यस्यासौ सुनयनः, बिम्ब-गोल्लाफलं तद्वत् ओष्ठौ यस्य स बिम्बोष्ठः, धवले दन्तपती यस्य स धवलदन्तपतिकः, वरपद्मगर्भ इव गौरो-निर्मलो वरपझगर्भगौरः, फुल्लोत्पलगन्धवनिःश्वासो यस्य स तथा । इदानीं जातिस्मरणद्वारमभिधित्सुराह
जाईसरो उ भयवं अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीए वुद्धीए य अम्महितो तेहिं मणुएहिं ॥ १८९॥ | जाति स्मरतीति जातिस्मरो भगवान्, 'लिहादिभ्य' इत्यणपवादोऽचू, कथं जातिस्मर इत्याह-अप्रतिपतितैरेवी त्रिभिः-मतिश्रुतावधिरूपैर्जानैः, अवधिज्ञानं हि भगवतो देवलोकिकमेवायच्युतं भवति, तथा कान्त्या च बुद्ध्या च तेभ्यः-11
% 95
दीप अनुक्रम
H
भा.म.३३
sannlinrary.orm
~109~