SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education Ine “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः मेतत्, 'नासानीसासवायवोज्झं ति नासिकानिःश्वासवातवाद्यं, अनेन तस्य लक्ष्णतामाह, 'चक्खुहरं'ति चक्षुर्हरति-| आत्मदर्श नयति विशिष्टरूपातिशयकलितत्वात् चक्षुर्हरं, वर्णस्पर्शयुक्तं अतिशायिना वर्णेनातिशायिना स्पर्शेन च युक्तं, 'हयलालापेलवाइरेग' मिति हयलाटा - अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकं, बाहुलकादेवं समासः, विशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, तथा कनकेन खचितानि - विच्छुरितानि अन्तकर्माणि-अञ्चलयोर्वानलक्षणानि यस्य तत् कनकखचितान्तकर्म, 'अच्छरसातंदुलेहिं'ति अच्छो रसो येषां ते अच्छरसाः, येषु प्रतिबिम्बमपि सङ्क्रान्तमुपलभ्यते इति, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः, सूत्रे पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, 'पाडलियमलियेत्यादि, पाटलीमल्लिकाचम्पकाशोकपुन्नागचूत मञ्जरी नवमालिकावकुलतिलककणवीर कुन्दकुलकोरण्टकानि प्रतीतानि पत्रप्रधानो दमनकः पत्रदमनकः एवंरूपश्चासौ वरसुरभिगन्धिकश्च पाटलो यावत्पत्रदमनकं वरसुरभिगन्धिकस्तस्य ओघनिकरं- उच्चैस्त्वेन प्रवाहनिकरं, 'चंदप्पभवइरे' त्यादि, चन्द्रप्रभः- चन्द्रकान्तो वज्रवैडूर्ये प्रसिद्धे तेषां तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरलैर्भक्त्या - विच्छिश्या चित्रं यस्य स तथा तं, उत्तमेन कालागुरुप्रवरकुन्दुरुष्क| तुरुष्क धूपगन्धेनानुविद्धा काटागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, उत्तमशब्दस्य परनिपातः प्राग्वत्, तां धूमवति विनिर्मुञ्चन्तं, 'दसंगुलं अंजलि मिति अन्योऽन्यान्तरिता दश अङ्गुल्यो यत्र सा दशाङ्गुलिस्तामञ्जलिं 'अडसयवि सुद्धगंधजुत्तेहि' विशुद्धो-निर्म्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः - शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धप्रन्ययुक्तानि च तैर्महावृत्तैरपुन रुचैरर्थसारैः, तथा नमोऽस्तु ते तुभ्यं, सिद्धेत्यादीनि सर्वाण्यपि or Peyote & Personal Use Ony 103~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy